SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ हितीयः प्रस्तोवः । तत्कर्तुमुद्यतस्तैः स क्षिप्त: कूपे कपोज्झितैः । हन्यते बन्धुरप्यर्थलुब्धैरन्यस्य का कथा ॥ ५ ॥ पर्णाञ्चितायां तन्मध्ये मेखलायां पपात सः । नेषदप्यङ्गजा पीडा ततोऽभूत्तस्य भाग्यतः ॥ ६ ॥ गाथां तां चिन्तयन् सोऽथ कूपपार्खान्यलोकयत् । दृष्ट्वैकदेशे विवरं तत्राविक्षञ्च कौतुकात् ॥ ७ ॥ चारसोपानपत्याऽसौ गत्वा किञ्चिदधस्ततः । ऋजुनैव पथा गच्छन् पश्यंश्चिवायनेकशः ॥ ८॥ ददर्शकं देवकुलं तस्य मध्ये प्रभावतीम् । । - ताारूढां चक्रपाणिं देवी चक्रखरौं तथा ॥८॥ (युग्मम्) नत्वा तां परया भक्त्या शौर्षे विरचिताञ्जलिः । एवं विज्ञापयामास धनदो वदतां वरः ॥ १० ॥ जय श्रीवृषभखामिजिनशासनदेवते। दुष्टारिष्टहरे स्तोतुः सर्वसम्पत्करे जय ॥ ११ ॥ दिध्या कष्टाहितनाद्य हे देवि त्वं मयेक्षिता। भवतां तावकोनी तच्चरणौ शरणं मम ॥ १२ ॥ तद्भक्तिमुदिता सोचे सर्व भव्यं भविष्यति । अग्रे गतस्य ते वत्स मत्तोऽप्यर्थय किञ्चन ॥ १३ ॥ सोऽवदत् मयका देवि किं न प्राप्तं महीतले । दृष्टे त्वद्दर्शने पुण्यरहितानां सुदुर्लभे ॥ १४ ॥ ततो महाप्रभावानि पञ्चरत्नानि देवता । करे तस्यार्पयामास तत्प्रभावं शशंस च ॥ १५ ॥
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy