________________
६
श्रीशान्तिनाथचरित्रे
एकं सौभाग्यकरणं द्वितीयं श्रीनिकेतनम् ।। तृतीयं रोगहृत्पद्यश्चतुर्थं विषनाशनम् ॥ १६ ॥ इदं च पञ्चमं रत्नमापत्पर्यन्तकारकम् । इत्युक्त्वाऽन्तर्दधे देवी धनदोऽप्यग्रतो ययौ ॥ १७ ॥ दृष्ट्वैकवाददे संरोहिणी चौषधिमुत्तमाम् । दीर्खा तुरिकया जङ्घा न्यधाद्रनानि तत्र च ॥ १८ ॥ संरोहिण्या महौषध्या रोहयित्वाऽथ तहणम् । पुरश्च गच्छन् पातालपुरमेकं ददर्श सः ॥ १८ ॥ तत्रावलोकयामास भक्ष्यभोज्यसमाकुलाः । मन्दिराट्टाऽऽवलीश्चित्रा मानुषैः परिवर्जिताः ॥ २० ॥ प्रदेशेऽन्यत्र सोऽद्राक्षीत् नरेन्द्रभवनं महत् । गवाक्षगोपुरप्रांशुप्राकारपरिशोभितम् ॥ २१ ॥ प्रविश्य कौतुकेनात्र गतः सप्तमभूमिकाम् । ददर्श बालिकामेकां रूपाज्जितसुराङ्गनाम् ॥ २२ ॥ तां दृष्ट्वा विस्मयापन्नं ज्ञातुकामं च तत्कथाम् । बभाष कन्यका तं भोः कुत: स्थानात्त्वमागतः ॥ २३ ॥ इहागतस्य ते प्राणसंशयो भद्र वर्तते। तट् गच्छ शीघ्रमन्यत्र यावत्ते कुशलं किल ॥ २४ ॥ धनदोऽथाब्रवीत् सुभ्र मोद्देगं कुरु शंस मे। किमिदं नगरं किं वा विजनं भवती च का ॥ २५ ॥ सा तस्य धैर्यरूपाभ्यां विस्मिता पुनरब्रवीत्। अस्ति चेत्कौतुकं तत्त्वं शृणु सुन्दर कारणम् ॥ २६ ॥