SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रस्तावः । इहास्ति भरते रम्यं नाम्ना श्रीतिलकं पुरम् । . महेन्द्रराजो नाम्राऽभूत्तत्र राजा पिता मम ॥ २७ ॥ अन्यदा विग्रहीतस्यान्यभूपैस्तस्य सन्निधौ । आगत्य व्यन्तरः कश्चित् सस्नेहं तमभाषत ॥ २८ ॥ त्वं पूर्वभवमित्रं मे तदाख्याहि करोमि किम् । सोऽवदत् कुरु साहाय्यं शत्रन् मम विनाशय ॥ २८ ॥ व्यन्तरोऽप्यब्रवीते शक्या हन्तुं मया सखे । यतो मदधिकरतेऽधिष्ठिता व्यन्तरैः खलु ॥ ३० ॥ करोमि किन्तु साहाय्यमित्युक्त्वा तेन मत्यिता । सपौरः सपरीवार इहानीतो झटित्यपि ॥ ३१ ॥ पुरं चाकारि तेनेदं पातालपुरनामकम् । . प्रवेशनिर्गमावेककूपनैवास्य सुन्दर ॥ ३२ ॥ रक्षार्थ कूपकस्यापि द्वितीयं विहितं पुरम् । ततः प्रवहणैरत्र नानावस्तुसमागमः ॥ ३३ ॥ एवं गच्छति कालेऽत्र राक्षसः कश्चिदन्यदा । कूपप्रवेशसोपानपङ्क्तिं भक्त्वा समाययौ ॥ ३४ ॥ मांसलुब्धः स दुष्टात्मा प्रवृत्तः खादितुं जनान् । कियद्भिश्च दिनैश्चक्रे पुरमेतदमानुषम् ॥ ३५ ॥ बहिः पुरस्य लोकोऽपि तेनारब्धो निपातितुम् । स चाधिरुह्य यानेषु ययावन्यत्र कुत्रचित् ॥ ३६ ॥ एवं च विहिता तेन शून्येयं नगरहयो। एकैव रक्षिताऽहं तु परिणतुं दुरात्मना ॥ ३७ ॥
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy