SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ श्रीशान्तिनाथचरित्र इतो दिनासप्तमेऽहन्यतीते तेन मे पुरः । इति प्रोचे यथा भने प्रचण्डो राक्षसोऽस्यहम् ॥ ३८ ॥ मानुषामिषलुब्धेन मयेहागत्य मारितः । नगर निखिलो लोको रक्षिता त्वं तु कारणात् ॥ ३८ ॥ सप्तमे दिवसे लग्नं शुभग्रहनिरीक्षितम् ।। तत्र खां परिणेष्यामि करिष्यामि स्वर्गहिनीम् ॥ ४० ॥ तदद्य सप्तमदिनं समयोऽयं तदागतः । यावन्नायात्यसो तावत् याहि त्वं सुन्दराकृते ॥ ४१ ॥ धनदः माह मुग्धे त्वं मा भैषीः शृणु संप्रति । हतः स्वपाप्मनवासौ मरिष्थति करण मे ॥ ४२ ॥ सोचे तहि च तन्मृत्युसमयं कथयामि ते । पूजाकाले स विद्याया मारणीयस्त्वया खलु ॥ ४३ ॥ तस्मिंश्च समयेनासावुत्तिष्ठति न जल्पति । अयं च खड्गो मत्तातसत्को ग्राह्यस्त्वया तदा ॥ ४४ ॥ आगानिशाचरः सोऽथ ग्रहीत्वा वृशब करे । विलोक्य धनदं चाग्रे सप्रहासमदोऽवदत् ॥ ४५ ॥ अहो आश्चर्यमायातं भक्ष्यमद्य मम स्वयम् । इत्युदिलाऽवज्ञयैव मुमोच मृतकं च तत् ॥ ४६ ॥ विद्यां पूजयितुं यावत् प्रवृत्तोऽसौ तदाऽमुना । इत्युक्त: खड्गमावष्य त्वां हनिष्याम्यरेऽधुना ॥ ४७ ॥ अवजया हसन् सोऽथ कृतपूजो निपातितः । तेन खड्नेन सद्योऽपि पातयित्वा शिरो भुवि ॥ ४८ ॥
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy