SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रस्तावः । कृत्वा गाढोद्यमं येनानीतेयं मृगलोचना । तदस्य भाग्यवन् मित्रं श्लाघ्यमित्यपराऽवदत् ॥ ८८ ॥ जजल्पान्या किमेतं न श्रेष्ठिनं वर्णयस्यलम् । अविज्ञातोऽपि येनायं पुत्रवत् परिपालितः ॥ ८८ ॥ इत्यालापान् पुरन्ध्रीणां शृण्खानः प्रीतमानसः । ययावमरदत्तोऽसौ द्वारे नृपतिवेश्मनः ॥ ८० ॥ स्तम्बेरमात्ममुत्तौय्यं विवेशाऽऽस्थानमण्डपे | उपाविशञ्च तत्रैव नृपमण्डलसेवितः ॥ ८१ ॥ सा रत्नमञ्जरी देवी मित्रानन्दः सुहृत्तथा । निषेदतुर्नृपोपान्ते यथास्थानमथापरे ॥ ८२ ॥ चक्रे राज्याभिषेकोऽस्य सामन्तैर्मन्त्रिभिस्तथा । राज्ञा च विहिता पट्टराज्ञी सा रत्नमञ्जरी ॥ ८३ ॥ चक्रे सर्वाधिकारी च मित्रानन्दो 'महामतिः । स्थापित पितुः स्थाने रत्नसारो वणिग्वरः ॥ ८४ ॥ एवं कृत्वोचितं तेषां कृतज्ञैकशिरोमणिः । अखण्डशासनो राज्यं पालयामास तत्र सः ॥ ८५ ॥ राज्यकार्यरतोऽप्येवं मित्रानन्दः शबोदितम् | तन्मृत्युसूचकं वाक्यं विसस्मार कदापि न ॥ ८६ ॥ एकदा तेन भूपस्य कारणं तन्निवेदितम् । देशान्तरगतिः स्वस्य प्रार्थिता च पुनस्ततः ॥ ८७ ॥ (१) द न्टपेण सः । ११६
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy