________________
१२०
श्रीशान्तिनाथचरित्रे
प्रत्युक्तो भूभुजा सोऽपि मा कार्षीत्वं भयं सखे ! | दुष्टोऽपि स्थियोर कर्ता नौ व्यन्तरः स किम् ? ॥ ८८ ॥ मित्रानन्दोऽवदत् प्रत्यासन्नत्वेन मनो मम ।
अद्यापि दूयते दूरं तन्मां प्रेषय भूपते ! ॥ ८८ ॥ विचिन्त्योक्त पुना राज्ञा यद्येवं गच्छ तत् सखे ! । नरैः प्रत्ययितैः सार्द्धं वसन्तपुरपत्तनम् ॥ ३०० ॥ अङ्गीकृते तदादेशे विसृष्टोऽसौ महीभुजा । प्रेषिताश्च समं तेन शिक्षां दत्त्वेति पूरुषाः ॥ १ ॥ हंहो ! तत्र गतैः कैश्चिद् युष्मन्मध्यान् ममान्तिकम् । आगन्तव्यमिहैतस्य क्षेमवाती निवेदितुम् ॥ २ ॥ अथ मित्रे गते राजा तद्वियोगार्दितोऽपि सः । पुण्यलब्धां समं देव्या भुङ्क्ते स्म नृपतिश्रियम् ॥ ३ ॥ तेषां मध्यान्नृणां कोऽपि नाऽऽययौ भूभुजा ततः । अन्ये संप्रेषितास्तस्य शुद्धिज्ञानकृते नराः ॥ ४ ॥ प्रत्यागतैश्च तैः पुम्भिः कथितं नृपतेरदः । दृष्टोऽसौ तत्र नाऽस्माभिः वार्ताऽप्यस्य श्रुता न हि ॥ ५ ॥ ततः संभ्रान्तचित्तो राट् देवीमूचे कथं प्रिये ! | कर्तव्यं यन्त्र वार्ताऽपि श्रुता मित्रस्य हा ! मया ॥ ६ ॥ साऽऽख्यद् यद्येति कोऽप्यत्र ज्ञानी तत्तेन विद्यते । सन्देहोऽयं प्राणनाथ ! हन्त नान्येन केनचित् ॥ ७ ॥ उद्यानपाल केनेति विज्ञप्तोऽत्रान्तरे नृपः । देवाऽऽयातोऽस्ति श्रीधर्मघोषसूरिः पुरे तव ॥ ८ ॥