SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रस्तावः । अशोक तिलकोद्याने प्राशुकस्थण्डिले स्थितः । चतुर्ज्ञानधरो धर्मं लोकानामादिशत्यसौ ॥ ८ ॥ समयाऽऽगमनं तस्व श्रुत्वाऽसौ भक्तितत्परः । ययौ तद्दन्दनाहेतोः सामग्रग्रा प्रेयसीयुतः ॥ १० ॥ खड्गादिराजचिह्नानि मुक्ता गुर्वन्तिकं गतः । नत्वा सपरिवारं तं निषसाद यथास्थिति ॥ ११ ॥ गुरुरूचेऽत्र भोः ! स्वर्गापवर्गादिसुखैषिभिः । नष्टदुष्टाष्टकर्माऽयं कर्तव्यो धर्म एव हि ॥ १२ ॥ अत्रान्तरेऽशोकदत्तः पप्रच्चैवं वणिग्वरः । १२१ भगवन् ! कर्मणा केनाशोक श्रीर्दुहिता मम ॥ १३ ॥ अतीव वेदनाऽऽक्रान्ता सर्वाङ्गेष्वभवत्ततः । चिकित्साच कृतास्तस्या रोगशान्तिर्बभूव न ॥ १४ ॥ ( युग्मम् ) सूरिः प्रोचे भूतशालनगरे श्रेष्ठिनः प्रिया । साऽभवद् भूतदेवस्य नाम्ना कुरुमती पुरा ॥ १५ ॥ पोते सत्यन्यदा दुग्धे मार्जार्या, भणिता तया । स्रुषा देवमती नाम्नो गाढकोपवशादिदम् ॥ १६ ॥ शाकिन्या किं गृहीताऽसीर्यन्नारक्षि पयस्त्वया । साऽपि वृद्दचसा भीतोत्कम्पिताङ्गी बभूव च ॥ १७ ॥ ततः सा दुष्टमातङ्गया शाकिनो मन्त्रयुक्तया । आता 'स्वकर्मकर्येव च्छलं लब्धा झटित्यपि ॥ १८ ॥ (१) ङ ज ट ण स्वकर्मकायैव । १६
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy