________________
चतुर्थः प्रस्तावः ।
स चास्य कथयामास प्रतिबोधविधायकम् । ज्ञाताधर्मकथाऽऽदिष्टं रम्यं भावि कथानकम् ॥ ६६
प्रसिद्धे मगधे देशे पुरे राजगृहाभिधे ।
श्रेष्ठी लक्ष्मना वैश्रवणोपमः ॥ ६७ ॥
२०३
धनो नामाभवत् धारिणी गृहिणी तस्य सुतास्तत्कुक्षिसम्भवाः । पुरुषार्था इवाभूवन् चत्वारस्तस्य विश्रुताः ॥ ६८ ॥ प्रथमो धनपालाख्यो धनदेवो द्वितीयकः । धनगोपस्तृतीयश्च चतुर्थो धनरक्षितः ॥ ६८ ॥ उका भागिका चैव धनिका रोहिणी तथा । तेषां भार्याः क्रमेणैताः चतस्रो जज्ञिरे शुभाः ॥ ७० ॥ सुप्तजागरितोऽन्येद्युः स श्रेष्ठो धनसंज्ञकः ।
यामिन्याः पश्चिमे यामे चिन्तां चक्रे निजौकसः ॥ ७१ ॥ यथा सर्वगुणाऽऽधारैः पुरुषैर्वर्तते ग्टहम् । गृहिण्याऽपि तथैवेदं विदुः शास्त्रविदो यतः ॥ ७२ ॥ भुङ्क्ते गृहजने भुक्ते सुप्ते स्वपिति तत्र या । जागतिं प्रथमं चास्मात् सा गृहश्रोर्न गेहिनी ॥ ७३ ॥ ततः परीक्ष्य जानामि स्वामिनो का भविष्यति ? | मध्याद् वधूनामेत्तासां ग्टहस्याधिगुणा मम ॥ ७४ ॥ विचिन्त्येनि समादेशं 'स्नुषाणां प्रददौ प्रगे । सारा रसवती सर्वा प्रगुखीक्रियतामिति ॥ ७५ ॥
(१) ख घ ङ सूहानां ।