________________
२०२
श्रीशान्तिनाथचरित्रे
प्रभो ! प्रोक्तः पिशाचाभ्यां यदि नाम ममात्ययः । देवयोन्युदितस्यापि तस्याभूदत्ययः कथम् ॥ ५५ ॥ सूरिराख्यदहो राजन् ! गौरी नाम गृहास्तव ।
बभूव रूपसम्पन्ना वैश्यवंशसमुद्भवा ॥ ५६ ॥ कर्मदोषेण केनापि जाता दौर्भाग्य दूषिता ।
सातवानिष्टा दृष्टा दृट्याऽप्यसौख्यदा ॥ ५७ ॥
ततः सा जातवैराग्या गत्वा पिटग्टहे निजे । अज्ञानतपसाऽऽत्मानं शोषयित्वा व्यपद्यत ॥ ५८ ॥ संप्राप्तव्यन्तरोभावा स्मृत्वा तं पूर्वमत्सरम् । अधिष्ठायौरगं कायं प्रविष्टा सा तवाऽऽलये ॥ ५८ ॥ कृत्वा पिशाचयो रूपं कुलदेवतया तव । ज्ञापितो देवराजोऽर्थममुं त्वत्क्षेमहेतवे ॥ ६० ॥ अचिन्त्या मानुषैर्देवी शक्तिर्यद्यपि वर्त्तते ॥ तथापि पौरुषं तेजः चमं तल्लङ्घने यतः ॥ ६१ ॥ महाविषधरः क्रूरो व्यन्तर्याऽधिष्ठितोऽपि सः । बलिना देवराजेन लीलयैव हतस्ततः ॥ ६२ ॥ ( युग्मम् ) सूरिं विज्ञपयामास पुनर्नत्वाऽथ भूपतिः । भाग्योदयेन मुक्तोऽहममुष्माद् व्यसनात् प्रभो ! ॥ ६३ ॥ भाग्यमेव ततः कर्तुं युज्यतेऽतः परं मम ।
तद् देहि दत्त ! सुव्रज्यां प्रव्रज्यां शुभदेहिनाम् ॥ ६४ ॥ ततश्च सूरिणा सूत्रविधानेनैष दीक्षितः । महाव्रतानि चारोप्य शिक्षितः सङ्घसाक्षिकम् ॥ ६५ ॥