SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ पञ्चमः प्रस्तावः। २७१ ततश्च वनखण्डान्तर्मूत धर्ममिवाग्रतः । ददर्शायं परिवृतं सूरिं भूरितपोधनैः ॥ ४५ ॥ नमस्कृत्य गुरोः पादावनुज्येष्ठं मुनीनपि । उपविश्य च गुर्वन्ते पप्रच्छेवं कृताञ्जलिः ॥ ४६ ॥ प्रभो ! सर्व विजानासि निर्मलज्ञानचक्षुषा। तेन पृच्छामि सा मृत्वा कां गतिं वानरी ययौ ? ॥ ४७ ॥ गुरुः प्रोवाच भूपाल ! मरालधवलाशया। धर्मध्यानपरा धन्या सुरलोकमियाय सा ॥ ४८ ॥ यतः तपःसंयमदानोपकारेषु निरत: सदा । गुरुवाक्यरुचिर्जीवो दयावांश्च दिवं गमी ॥ ४८ ॥ अपृच्छद्भूपतिर्भूयो भूयः पापपरायणः । जात्या च क्रियया चापि निषादाख्यः क्व यास्यति ? ॥५०॥ सूरिश्च कथयामास सर्वस्यापि स्फुटं यदः । यद्यस्य पापिन: स्थानं किमन्यवरकं विना ॥ ५१ ॥ जीवहिंसामृषावादस्तेनान्यस्त्रीनिषेवणैः । परिग्रहकषायैश्च विषयविषयोक्कतः ॥ ५२ ॥ कृतघ्नो निर्दयः पापी परद्रोहविधायकः । रौद्रध्यानपर: क्रूरो नरो नरकभाग् भवेत् ॥५३॥ (युग्मम्) प्रस्तावादपरगतिद्वयलक्षणमपि शृणु । पिशुनो गोमतिश्चैव मित्रे शाठ्यरत: सदा ॥ ५४ ॥ (१) ठ पिशुनो दुर्विनोत छ ।
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy