SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २७२ श्रीशान्तिनाथ चरित्रे आर्तध्यानेन जीवोऽयं तिर्यग्गतिमवाप्नुयात् । मार्डवार्जवसम्पत्रो गतदोष कषायकः । न्यायवान् गुणग्टहाश्च मनुष्यगतिभाग् भवेत् ॥ ५५ ॥ पृच्छति स्म पुनर्भूपः कथं व्याघ्रो मनुष्यवाक् 1 निषाद सूदनाद येन वारितोऽहं प्रभो ! बलात् ॥ ५६ ॥ जगाद पुनराचार्यो भूपते ! शृणु कारणम् । सौधर्मे देवलोकेऽस्ति शक्रसामानिकः सुरः ॥ ५७ ॥ तस्य प्राणप्रिया देवी चत्वा कापि मनुष्यभूत् । रक्षपालाः सुरास्तस्या अपृच्छंस्तप्रियं सुरम् ॥ ५८ ॥ स्वामिन्नस्मिन् विमाने का भविता देवता न वा ? | तेन सा वानरी तेषां भाविनी देवतोदिता ॥ ५८ ॥ व्याघ्ररूपधरो भूत्वा तत्परीचार्थमागतः । एको देवस्ततो राजंस्तस्य वाग् मानुषी वरा ॥ ६०॥ हरिप्रियानिषादाभ्यां सह तेन विनिर्ममे । विवादो बहुधा मायाशृगालानुचरेण च ॥ ६१ 1 प्रतिबुद्धस्ततो राजा राज्यं न्यस्य सुते निजे । तेषामेव मुनीन्द्राणां पार्श्वे जातो महाव्रती ॥ ६२ ॥ हरिपालाख्यराजर्षिः पालयित्वा व्रतं चिरम् । सुरलक्ष्मीमवापोच्चैस्तस्मिब्रेव सुरालये ॥ ६३ ॥ इति निषादवानरी कथा | यथाऽसौ नरकं प्राप्तो निषादो जीवहिंसया । तथाऽन्योऽपि भवेत्तस्मात्त्याज्येयं सर्वथा त्वया ॥ ६४ ॥
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy