________________
८४
श्रीशान्तिनाथचरित्रे
जीवानामिह संसारे विना धर्मेण नो सुखम् । त्यक्त्वा प्रमादं भो भव्यास्तद्धर्मे कुरुतादरम् ॥ २ ॥ कुर्वन् कलङ्कयेत् धर्मं मनसाऽप्यन्तरा हि यः महणाक इवाप्नोति स सौख्यं दुःखमिश्रितम् ॥ ३ ॥ पप्रच्छ धनदः कोऽसौ भगवन्महणाभिधः । कुर्वताऽपि कथं तेन धर्मो नाम कलङ्कितः ॥ ४ ॥ सूरिः प्रोचेऽत्र भरते पुरे रत्नपुराभिधे । शुभदत्ताभिधः श्रेष्ठो वसति स्म महाधनः ॥ ५ ॥ भार्या वसुन्धरा तस्य महणाकश्च तत्सुतः । सोमश्रोर्नाम तस्यापि बभूव सहचारिणी ॥ ६ ॥ अन्यदा रथमारुह्योद्या निकायां ययावसौ । उद्याने मण्डपस्तत्र 'विस्तीर्णश्च विनिर्मितः ॥ ७ ॥ खाद्य-भोज्य-लेह्य-पेय-भेदैस्तत्र चतुर्विधम् । बुभुजे स वराहारं मित्रैः सह यदृच्छया ॥ ८ ॥ ततस्ताम्बूलमादाय पञ्चसौगन्धिकं वरम् । क्षणं दृष्टिकृतानन्दं प्रेच्य प्रेक्षणकं तथा ॥ ८ ॥ बहु पादपसङ्गीर्णं फलपुष्पर्द्विबन्धुरम् । उद्यानमीक्षमाणोऽसौ ददर्शकं महामुनिम् ॥ १० ॥ ( युग्मम् )
स मित्र प्रेरितो गत्वा ववन्दे तं तपोधनम् ।
सोऽपि ध्यानं विमुच्यास्मै धर्मलाभाशिषं ददौ ॥ ११ ॥
(१) ग घ ट ड सुविस्तीर्णश्च निर्मितः 1