SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ हितीयः प्रस्तावः। तहर्मदेशनां श्रुत्वा प्रतिबुद्दा' स शुद्धधीः । ." सम्यक्त्रमूलं तत्पाचे ग्रहिधर्ममुपाददे ॥ १२ ॥ पुनः साधुं नमस्कृत्य स गतो निजमन्दिरम् । द्रव्येण कारयामास जिनमन्दिरमुत्तमम् ॥ १३ ॥ पश्चाच्च चिन्तयामास बहुद्रव्यव्ययो मया । कतो धर्मरसाधिक्यपराधीनतया कथम् ॥ १४ ॥ स एवं विगतोत्साहो भूत्वा कत्यपि वासरान् । ततो लोकानुरोधनाकारयप्रतिमामपि ॥ १५ ॥ प्रतिष्ठा कारयामास तस्याश्च खेतभिक्षुभिः ।। न्यवारयज्जीवमारिं ददौ दानं यथोचितम् ॥ १६ ॥ पुनर्दध्यावहो धर्मे बहुव्यव्ययं व्यधाम् । उपार्जितधनात्तुर्यभाग एवात्र युज्यते ॥ १७ ॥ फलं भावि नवाऽस्येति सन्देहो मे प्रवर्तते । शास्त्रे च श्रयते स्तोकव्ययस्यापि फलं महत् ॥ १८ ॥ स एवं संशयानोऽपि चक्र पूजादिसत्कियाम्। अन्येागृहमांयांतावपश्यच्च तपोधनौ ॥ १८ ॥ खयमेतौ शुभाहारैरुत्थाय प्रत्यलाभयत् । गतयोश्च तयोश्चिन्तां चक्रे धन्योऽहमित्यसौ ॥२०॥ . निद्राक्षये च यामिन्यामन्यदाऽचिन्तयत्पुनः । अप्रत्यक्षफलेनेह कृतन श्रेयसा हि किम् ॥ २१ ॥ (१) गं च ड -वः। (२) ग ङ च ड विधिपूर्वकम् ।
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy