SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ८६ श्रीशान्तिनाथचरित्रे अपरेद्युर्मुनिद्दन्दं दृष्ट्वा मलमलीमसम् । स एवं चिन्तयामास धिगहो मलिनाविमौ ॥ २२ ॥ यद्येते निर्मलं वेषमकरिष्यन्महर्षयः । ततोऽभविष्यत् किं नाम जैनधर्मस्य दूषणम् ॥ २३ ॥ अथवा हा मया दुष्टं चिन्तितं मुनिपुङ्गवाः । भवन्त्येवंविधा यस्मात्संयमेनैव निर्मलाः ॥ २४॥ एवं च शुभभावेन शुभं कर्म समार्जयत् । सोऽशुभेनाशुभं कर्मार्जयति स्मान्तराऽन्तरा ॥ २५ ॥ आयुः ये विपद्याभूत्स देवो भुवनाधिपः । ततश्चुत्वा समुत्पन्नः स त्वं धनदनामकः ॥ २६ ॥ कृत्वा कृत्वाऽन्तरा धर्मो यत्त्वया दूषितस्तदा । सुखानि दुःखमिश्राणि लब्धानीह ततः स्फुटम् ॥ २७ ॥ तच्छ्रुत्वा मूर्च्छितः पृथ्वयां पपात धनदः क्षणम् । जातिस्मृत्या निजं पूर्वभवभावं ददर्श च ॥ २८ ॥ उवाच च प्रभो सत्यं यद् युष्माभिः प्ररूपितम् । ततो बन्धूननुज्ञाप्य ग्रहीष्याम्यनगारताम् ॥ २८ ॥ इत्युदित्वा ग्टहे गत्वा पितरावेवमूचिवान् । हे अंबतात मां दीक्षाकृते विसृजतं युवाम् ॥ ३० ॥ ताभ्यां निवार्यमाणोऽपि न यावद्विरराम सः । तावत्तावूचतुर्दीक्षामादास्यावस्त्वया सह ॥ ३१ ॥ राज्ञः पार्श्वे ययौ सोऽथ स्वाभिप्रायं शसंस च । सोऽप्यूचेऽहमपि समं ग्रहीष्यामि व्रतं त्वया ॥ ३२ ॥
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy