SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २३५ चतुर्थः प्रस्तावः । साऽब्रवीद् रे शिशो ! यत् त्वं निग्रहानुग्रहाक्षमः । स त्वं रुष्टोऽथवा तुष्टः करिष्यसि ममात्र किम् ? ॥ ८६ ॥ रोहकः चिन्तयामासोत्पाद्य मन्तुं कमप्यहम् । तथा करिष्ये तातस्यानिष्टेयं जायते यथा ॥ ८७ ॥ विचिन्त्यैवं स यामिन्यामुत्थाय सहसाऽब्रवीत् । यात्येष पुरुषः कोऽपि निःसृत्य गृहमध्यतः ॥ ८८ ॥ तद् निशम्य पिता तस्य शयानोऽथ गृहाजिरे । उत्थायोवाच रे ! दुष्टं तं दर्शय नरं मम ॥ ८ ॥ रोहकोऽप्यवदत् तात ! स उत्प्मुत्य गत: क्षणात् । रङ्गोऽपि हि विरागाहस्ततोऽभूद गेहिनों प्रति ॥ १० ॥ पाः ! किमन्यनराऽऽसक्ता जातेयमथवा भवेत् ? । किमिदं दुर्घटं येन भवन्त्येवंविधाः स्त्रियः ? ॥ ८१ ॥ पृथक्शय्याविधानेन ततोऽसौ तेन धीमता। अशस्त्रवधवद् दुःखभागिनी विदधे स्फुटम् ॥ १२ ॥ साऽपि दध्यौ मया नापराद्धं किमपि भर्तरि ? । नूनमेतेन बालेन कोपितोऽयं पतिर्मम ॥ ८३ ॥ करोम्यस्यैव तद्भक्तिं भर्तृतोषविधित्सया। येनैवाऽऽरोपितं दुःखं स एवा पनयत्वरम् ॥ ८४ ॥ ततः सा प्रार्थयामास रोहकं भक्तिपूर्वकम् । वत्स ! मेऽभिमुखं कान्तं कुरु दास्यस्मि ते स्फुटम् ॥ १५ ॥ (१) ख घ ङ -पनयेत्तराम् ।
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy