________________
पञ्चमः प्रस्तावः ।
मुक्तस्तेन पणेनाऽसौ ततस्तौ नृपतेः पुरः । योद्धुं प्रवृत्तावन्योऽन्यं चचुघातकृतक्षतौ ॥ ३५ ॥ चचुपादप्रहारैस्तौ युध्यन्तावरुणेक्षणौ ।
राजसभ्यजनकृतां प्रशंसां समवापतुः ॥ ३६ ॥ तीर्थङ्करत्वादागर्भवासाद् ज्ञानत्रयाऽन्वितः । अत्रान्तरे मेघरथं राजा घनरथोऽब्रवीत् ॥ ३७ ॥ चिरं युध्वाऽनयोर्मध्याद वत्स ! नैकोऽपि जेष्यति । पृष्टोऽथ कारणं तेन पुनरेव जगाद सः ॥ ३८ ॥ इहैव भरतक्षेत्रेऽभूतां रत्नपुरे पुरे ।
धनद सुदत्तसंज्ञौ वणिजौ मित्रतां गतौ ॥ ३८ ॥ बाहयन्तौ बलीवर्दो क्षुत्तृष्णाभरपीडितौ । व्यवहारं सदा गन्त्रग्रा चक्रतुः सममेव तौ ॥ ४० ॥ मिथ्यात्वमोहितौ कूटतुलामानविधानतः । अर्जयामासतुर्वित्तं तौ चाल्पं परवञ्चकौ ॥ ४१ ॥ अन्यदा कलहायन्तौ तौ प्रहृत्य परस्परम् | विपद्य चार्तध्यानेन संजातौ वनदन्तिनौ ॥ ४२ ॥ कूले सुवर्णकूलायाः वर्डमानौ बभूवतुः । काञ्चनताम्रकलशाऽभिधानौ यूथनायकौ ॥ ४३ ॥ तौ च यूथस्य लोभेन युवा मृत्वा बभूवतुः । सैरिभौ पुर्ययोध्यायां नन्दिमित्रस्य मन्दिरे ॥ ४४ ॥ गृहीत्वा राजपुत्राभ्यां योधितौ तौ परस्परम् । विपद्य पुरि तत्रैव संजातौ मेषको दृढौ ॥ ४५ ॥
1
२५१