________________
२५२
श्रीशान्तिनाथचरित्रे
मिथः शृङ्गाऽग्रघातेन भिन्नशोर्षौ सविस्मयम् । मृत्वमौ कुक्कुटौ जातौ रोषारुणविलोचनौ ॥ ४६ ॥ ततश्च नैतयोर्मध्याद् वत्सैकोऽपि विजेष्यते । इति श्रुत्वा मेघरथोऽवधिज्ञानो शशंस च ॥ ४७ ॥ न केवलमिमौ तात ! 'मत्सरावेष्टितौ दृढम् । खेचराधिष्ठितौ चात्र कारणं कथयामि वः ॥ ४८ ॥ अस्त्यत्र भरतक्षेत्रे वैताव्यवरपर्वते ।
सुवर्णनाभं नगरमुत्तरश्रेणिभूषणम् ॥ ४८ ॥ तत्राऽऽसीद गरुडवेगाभिधानः खेचरेश्वरः । तस्य पुत्रौ चन्द्रसूरतिलकाऽऽख्यौ नभश्वरौ ॥ ५० ॥ अन्यदा तौ नमस्कर्तु प्रतिमाः शाश्वतार्हताम् । जग्मतुमेरुशिखरे जिननात्र पवित्रिते ॥ ५१ ॥ तत्र सागरचन्द्राऽऽख्यं चारणाश्रमणं वरम् । दृष्ट्वा प्रणेमतुः स्वर्णशिलाऽऽसोनमिमौ मुदा ॥ ५२ ॥ पृष्टो मुनिवरस्ताभ्यां निजपूर्वभवस्थितिम् । सोऽपि ज्ञानेन विज्ञाय कथयामास ताविति ॥ ५३ ॥ अस्तौह धातकीखण्डद्दीपस्यैरवते पुरम् | नाम्ना वज्ज्रपुरं तत्त्राभयघोषोऽभवद् नृपः ॥ ५४ ॥ सुवर्णतिलका तस्य राज्ञो तत्कुचिसम्भवौ ।
अभूतां जयविजयाभिधानौ वरनन्दनौ ॥ ५५ ॥
(१) क युद्धेत्र ते वैरसंयुतौ । खेचरावेष्टितौ । ख घ ङ मत्सराबेष्टितौ युतौ । युद्धेत्रते रोषरणौ । ठ पूर्वदुष्कर्मवैरिणौ । मत्सरावेष्टितौ ।