________________
पञ्चमः प्रस्तावः ।
२५३
इतः सुवर्ण नगरवामिनः शासभूपतः । पृथ्वीदेवोभवा पृथ्वीसेना नाम्नी सुकन्यका ॥ ५६ ॥ भूपस्याभयघोषस्य समायाता स्वयंवरा । परिणीतातिहर्षेण तेनासौ मृगलोचना ॥ ५७ ॥ अन्यदाऽथ वसन्तौ सुपुष्पवनबन्धुरे । ययौ क्रीडितुमुद्याने राजा राजीशतान्वितः ॥ ५८ ॥ भ्रमन्त्या तत्र तत्पत्नया पृथ्वीसेनाभिधानया । प्रदर्शि दान्तदमनाभिधानो मुनिपुङ्गवः ॥ ५८ ॥ तत्याखें धर्ममाकर्ण्य तया च प्रतिबुद्दया । अनुज्ञाप्य महीपालं प्रव्रज्या प्रत्यपद्यत ॥ ६ ॥ राजाऽप्युद्यानलक्ष्मी तामनुभूय ययौ पुरम् । प्राप्तश्च तगृहेऽन्येा श्छद्मस्थोऽनन्ततीर्थक्वत् ॥ ६१ ॥ प्राशुकैरनपानश्च स तेन प्रतिलाभितः । चक्रिरे पञ्च दिव्यानि तगृहे च दिवौकसः ॥ ६२ ॥ उत्पबकेवलस्यास्य समीपे स महीपतिः । तनयाभ्यां समं ताभ्यां प्रव्रज्यां प्रतिपत्रवान् ॥ ६३ ॥ विंशतिस्थानकैः तीर्थकरकर्म निबध्य सः । कत्वा कालं ससुतोऽप्यच्युतकल्पे सुरोऽभवत् ॥ ६४ ॥ ततश्चयतोऽभयघोषजीव: स्वस्याऽऽयुषः क्षये। राजा धनरथो जने हेमाङ्गदनृपाऽऽत्मजः ॥ ६५ ॥ जीवी जयविजययोः सञ्जाती वां दिवश्चाती। इति तेनानगारेण तयोस्तात ! निवेदितम् ॥ ६६ ॥