________________
२५४
श्रीशान्तिनाथचरित्र ततस्तो द्रष्टुमुत्को त्वामिहायाती नभश्चरौ। . अपश्यता युध्यमानौ कौतुकात् 'कुर्कुटाविमौ ॥ ६७ ॥ ताभ्यामधिष्ठितावेतौ विद्यया तस्थतुश्च तो। इहैव गोपयित्वा स्खं स्वविद्यायाः प्रभावतः ॥ ६८ ॥ वाक्यं मेघरथस्येदं श्रुत्वा तौ खेचरावुभौ । राज्ञो घनरथस्यांह्री प्रकटीभूय नेमतुः ॥ ६८ ॥ तो पूर्वभवतातस्य तस्य नखा क्रमहयम् । क्षणं स्थित्वा निजं स्थानं पुनरेव प्रजग्मतुः ॥ ७० ॥ ततो दीक्षां गृहीत्वा तौ तपस्तवा सुदुश्चरम् । उत्पबकेवलज्ञानो सनातनपदं गतौ ॥ ७१ ॥ अथ तौ कुर्कुटौ सवीं श्रुत्वा पूर्वभवस्थितिम् । महापापविधातारं मनसा खं निनिन्दतुः ॥ ७२ ॥ प्रणम्य चरणइन्हं राज्ञो धनरथस्य तौ। स्वभाषयोचतुश्चैवमावां किं कुर्वहे 'प्रभो ! ? ॥ ७३ ॥ ततो राज्ञा ससम्यक्त्वो धर्मोऽहिंसाऽऽदिलक्षणः । तयोर्निवेदितस्ताभ्यां भावसारं प्रतीप्सितः ॥ ७४ ॥ प्रायं कृत्वा विपन्नौ तौ देवयोनी बभूवतुः । ताम्रचूलस्वर्णचूलो भूतौ भूताऽटवौं गतौ ॥ ७५ ॥
(१) कुक्कुटकुर्कुटशब्दयोः पर्यायत्वात् केषु पुस्तकेषु कुक्कुटशब्दस्य केषुचन कुकटयोल्लेखः। (२) क द विभो!। (३) ड आयुःक्षये।