________________
पञ्चमः प्रस्तावः ।
२५५
ततो विमानमारुह्याऽऽगत्य नत्वा महीपतिः । कतोपकारं तं प्राशंसतां विरचिताञ्जली ॥ ७६ ॥ राजानं समनुज्ञाप्य जग्मतुस्ती खमाश्रयम् । राजाऽपि पालयामास राजलक्ष्मीमसौ चिरम् ॥ ७७ ॥ एत्य लोकान्तिकैर्देवै राजा घनरथोऽन्यदा। तीर्थं प्रवर्तयेत्युक्त्वा दीक्षाकालं विबोधितः ॥ ७८ ॥ दत्त्वा सांवत्सरं दानं राज्ये मेघरथं सुतम् । स्थापयित्वा स जराहे दीक्षां देवेन्द्रवन्दितः ॥ ७ ॥ उत्पाद्य केवलज्ञानं भविकान् प्रतिबोधयन् । विजहार महोपोठे श्रीमान् घनरथो जिनः ॥ ८० ॥ युक्तो दृढरथेनाथ युवराजेन सप्रियः । उद्याने देवरमणे ययौ मेघरथोऽन्यदा ॥ ८१ ॥ तत्राशोकतरोर्मूले निविष्टस्यास्य भूपतेः । पुरोभूतैः समारब्धा कैश्चित् प्रेक्षणकक्रिया ॥ ८२ ॥ नानाशस्त्रधराः कत्तिवाससो भूतिमण्डिताः । तेऽतीव विस्मयकरं नृत्यं विदधिरे क्षणम् ॥ ८३ ॥ तेषु नृत्यं प्रकुर्वत्सु किङ्किणीकेतुमालितम् । विमानमेकमाकाशादाययौ नृपसबिधौ ॥ ८४ ॥ तन्मध्ये सुन्दराऽऽकारं नारीपुरुषयोर्युगम् । दृष्ट्वा पप्रच्छ कावेताविति देवी महीपतिम् ॥ ८५ ॥ राजा प्रोवाच हे देवि ! शृणु वैताठ्यपर्वते । उत्तरस्यां वरश्रेण्यां नगरी विद्यतेऽलका ॥ ८६ ॥