________________
४६
श्री शान्तिनाथचरित्रे
तत्राचार्यं नमस्कृत्योपविश्य च यथास्थिति । शुश्राव देशनां तस्य मोहनिद्राविनाशनम् ॥ १० ॥ पप्रच्छावसरे चैवं भगवन् विश्वविश्रुतः । मत्कनिष्ठो गुणैर्ज्येष्ठस्त्रिपृष्ठ: कां गतिं गतः ॥ ११ ॥ सूरिरूचे स नृशंसः पञ्चेन्द्रियवधे रतः । महारम्भपरो मृत्वा सप्तमं नरकं ययौ ॥ १२ ॥ तच्छ्रुत्वा विललापैवमचलः स्नेहमोहितः । हा विश्ववोर हा धीर किं तेऽभूहतिरोहशी ॥ १३ ॥ गुरुणोक्तं मा विषोद शृणु पूर्वजिनोदितम् । यदस्य चरमो जीवो भविताऽत्र जिनेश्वरः ॥ १४ ॥ ततः श्रविजयं राज्ये यौवराज्येऽपरं सुतम् । निवेश्य बलभद्रोऽस्य गुरोः पार्श्वेऽग्रहोहुतम् ॥ १५ ॥ राज्ञः श्रीविजयस्याथ राज्यं पालयतः सतः । सभास्थस्यान्यदाऽऽगत्य प्रतीहारो व्यजिज्ञपत् ॥ १६ ॥ प्रभो त्वन्मन्दिरद्दारं त्वद्दर्शनसमुक्तकः ।
अस्ति नैमित्तिको नाम स आयातु प्रयातु वा ॥ १७ ॥ ततो राज्ञोऽनुमत्याऽसौ तेनानीतः सभान्तरे ।
assiर्वचनं तस्मै यथासनमुपाविशत् ॥ १८ ॥ राजा प्रोवाच ज्ञानेन यत्पश्यसि शुभाशुभम् । तत्त्वं ब्रूहि निमित्तज्ञ करे यत्तेऽस्ति पुस्तिका ॥ १८ ॥ Hisarta पश्यामि यदहं निजब्रह्मणा ।
तद्वक्तुमपि नो शक्यं कथ्यते तु त्वदाज्ञया ॥ २० ॥