________________
१६६
श्रीशान्तिनाथचरित्रे
सोऽथ श्रेणियस्वामी मेघनादो 'महामतिः । दशोत्तरशतं देशान् स्वसुतेभ्यो ददौ क्रमात् ॥ २८ ॥ गत्वा सुराचलेऽन्येद्युः प्रतिमाः शाखतार्हताम् । पूजयामास विद्यां च प्रज्ञप्तिं भक्तिपूर्वकम् ॥ ३० ॥ तदा तत्राऽऽययुः सर्वदेवाः कल्पनिवासिनः । अच्युतेन्द्रेण दृष्टोऽसौ सेहात् सम्भाषितस्तथा ॥ ३१ ॥ स आख्याय पूर्वभवस्वरूपं धर्मसंयुतम् ।
निजं स्थानं ययौ मेघनादोऽपि खचरेश्वरः ॥ ३२ ॥ भक्त्याऽमरगुरोः पार्श्वे मुनीन्द्रस्यानगारताम् । प्रतिपद्य तपस्तेपे गत्वा नन्दनपर्वते ॥ ३३ ॥ अश्वग्रीवसुतजीवासुरेणास्य विनिर्मिताः । महोपसर्गास्तत्रैकरात्रिकौप्रतिमाजुषः ॥ ३४ ॥ प्रतिमां पारयित्वा तां विहृत्य जगतीतले । मृत्वा समाधिना चान्ते सोऽप्यभूदच्युतेश्वरः ॥ ३५ ॥ षष्ठो भवः सप्तमसंयुतोऽयं
कषायविच्छेदकथा विचित्रः ।
प्रोक्तो मया शान्तिजिनेश्वरस्य
करोतु कल्याणततिं स सङ्के ॥ ७३६ ॥ इत्याचार्य श्री अजितप्रभसूरिविरचितं श्रोशान्तिनाथचरिते षष्ठसप्तमभववर्णनो नाम तृतीयः प्रस्तावः ॥ ३ ॥
(१) ख घ च ज महीपतिः ।
(२) घ च ज झ ययौ स्थानं निजं ।
(३) ङ च।