________________
द्वतीयः प्रस्तावः ।
१६५ तस्मादिष्टवियोगाऽऽख्यमहद्रोगनिपीडितैः । सुश्रुतोतक्रियायुक्तः कार्य धौषधं महत् ॥ २० ॥
'सम्पदोऽत्र करिकर्णचञ्चलाः सङ्गमाः प्रियवियोगनिष्फलाः । जीवितं मरणदुःखनौरस
मोक्षमक्षयमतोऽर्जयेद् बुधः ॥ २१ ॥ तां धर्मदेशनां श्रुत्वा गतशोकोऽपराजितः । जातव्रतपरीणामो नत्वा तं गणनायकम् ॥ २२ ॥ गृहमागत्य राज्ये च स्थापयित्वा खनन्दनम् ।। समाददे परिव्रज्यां नृपमण्डलसंयुतः ॥ २३ ॥ (युग्मम् ) बहुकालं तपस्तम्बा कत्वाऽन्तेऽनशनं तथा । विपद्याच्युतकल्पेऽसौ संजने त्रिदशेखरः ॥ २४ ॥ इतोऽस्य जम्बूद्वीपस्य क्षेत्रे भरतनामनि। वैताब्यदक्षिणश्रेण्यां पुरे गगनवल्लभे ॥ २५ ॥ मेघवाहनविद्याभृद्भपतेर्मेघमालिनी। बभूव गुणसंयुक्ता गेहिनी रूपशालिनी ॥ २६ ॥ (युग्मम्) अनन्तवीर्यो नरकादुद्दृत्य समभूत् तयोः । मेघनादाभिधः पुत्रो यौवनं समवाप सः ॥ २७ ॥ कन्या विवाह्य बह्वीस्तं स्वराज्ये विनिवेश्य च । प्रतिपदेऽनगारत्वं मेघवाहनभूपतिः ॥ २८ ॥
(१) अयं लोकः ग ङट ढ पुस्तके वेव दृश्यते।