________________
१६४
श्रीशान्तिनाथचरित्रे
अशीतिपूर्वलक्षाणि चतुर्भिरधिकान्यथ ।
आयुः प्रपू सोऽनन्तवीर्यो विष्णुर्व्यपद्यत ॥ ११ ॥
संवत्सरद्विचत्वारिंशत्सहस्रायुरादिमे ।
श्वभ्त्रे नारकिको जज्ञे 'स निकाचितकर्मभिः ॥ १२ ॥ afsalisपरः शोकमस्तोकं विदधे ततः । नीतिधर्मविदग्धेन मन्त्रिणैवमभाणि सः ॥ १३ ॥ यदि मोहपिशाचेन च्छल्यन्ते त्वादृशा अपि । तदा किमपरं धीर ! धीरता संश्रयत्वियम् ॥ १४ ॥ इति तद्दचसा किञ्चिद् गतशोको बभूव सः । अन्यदा गणभृत् तत्राऽऽययौ नाम्ना यशोधरः ॥ १५ ॥ विज्ञायाऽऽगमनं तस्य वन्दनार्थमगा दसौ । भक्त्या षोडशभिर्भूपसहस्रेः परिवारितः ॥ १६ ॥ नत्वा गणधरेन्द्रं तं निषस्मोऽसौ यथास्थिति । कृताञ्जलिपुटो धर्मदेशनामशृणोदिति ॥ १७॥ शोकोऽभीष्टवियोगेन जायते दारुणो जने । स सद्भिः परिहर्तव्यस्तत्स्वरूपमिदं यतः ॥ १८ ॥ नामान्तरः पिशाचोऽयं पाप्मा रूपान्तरस्तथा । तारुण्यं तमसो ह्येष विषस्यैष विशेषतः ॥ १८ ॥
(१) क ण द स्वनिका । ङ ऽसौ ।
ङ तदा कमपरं विश्वे धीरा यं संश्रयन्ति हि ।
(2)
(३) च ज विषयस्य ।