________________
२२८
श्रीशान्तिनाथचरित्रे
सोऽवदद् युज्यते कर्तुं परस्त्रीसंग्रहो न मे । इयं च परिणीतैव किं कर्तव्यं मया ततः ? ॥ १८ ॥ देवतोवाच हे वत्स ! किं बहतेन संप्रति ? | एषा ते वल्लभाऽवश्यं न्यायेनैव भविष्यति ॥ २० ॥ तद्दाक्यमनुमेनेऽसौ सा पुनर्गुणसुन्दरी । षण्मासीमतिचक्राम पत्युर्विरहदुःखिता ॥ २१ ॥ अप्राप्नुवत्यसौ कान्तं रहस्यं चाविलखती । पूर्णेऽवधी प्रतिज्ञां वां संपूरयितुमुद्यता ॥ २२ ॥ सुकाष्ठैः कारयामास चितां तस्मात् पुराद् बहिः । 'चचाल वार्यमाणाऽपि प्रवेष्टुं ज्वलितानले ॥ २३ ॥ rets सार्थवाहोऽयं वैराग्येण हि केनचित् । मुमूर्षतोत्युदन्तोऽयं सकलेऽपि पुरेऽभवत् ॥ २४ ॥ तमाकर्ण्य ययौ राजा सपौरः सपुरन्दरः । रत्नसारपुण्यसारसहितश्च तदन्तिकम् ॥ २५॥
राज्ञा सोऽभाणि केनाऽऽज्ञा खण्डिताऽत्र पुरे तव ? | यदर्तिलक्षणं काष्ठभक्षणं कुरुते भवान् ॥ २६ ॥ ऊचे च रत्नसारेण सुविचारेण किं तु ते I अपराद्धमहो ! दारेरुदारैर्भद्र ! किञ्चन ॥ २७ ॥
सोऽवदद् नापराधं मे केनाप्याज्ञा न खण्डिता । अहं त्विष्टवियोगार्तिकृता दैवेन खण्डिता ॥ २८ ॥
( १ ) घ चेले च । ङ लोकैश्च वार्यमाणोऽपि ।
(२) ज द साऽभाणि ।