________________
चतुर्थः प्रस्तावः ।
२२७ विज्ञाय दुहितुर्भावं रत्नसारस्तदन्तिकम् । गत्वोवाच मम सुता भर्तारं त्वां समोहते ॥८॥ गुणसुन्दर्यथो दध्यावस्था वाञ्छा निरर्थिका। इयोमहिलयोर्यस्माद् रहवासः कथं भवेत् ? ॥ ८ ॥ यत् किञ्चिदुत्तरं कृत्वा तदेतां वारयाम्यहम् । अन्यथा या गतिमेऽस्ति साऽस्या अपि भविष्यति ॥ १० ॥ एवं विचिन्त्य मनसा साऽवदत् वेष्ठिपुङ्गवम् । अस्मिन्नर्थे कुलीनानां पित्रोरेव प्रधानता ॥ ११ ॥ वर्तेते ती च मे दूर तत् त्वया निजनन्दिनौ । प्रदेयाऽन्यस्य कस्यापि प्रत्यासन्ननिवासिनः ॥ १२ ॥ अभाणि रत्नसारण मत्पुत्रास्त्वं हि वल्लभः । सा देया कथमन्यस्मै पुरुषाय मया यत: ? ॥ १३ ॥ शत्रुभिबन्धुरूपैः सा प्रक्षिप्ता दुःखसागरे । या दत्ता हृदयानिष्टरमणस्य कुलाङ्गना ॥ १४ ॥ अनुमेनेऽथ तहाक्यं साग्रहं साऽमुनोदिता। तयोविवाहश्चक्रे च श्रेष्ठिना पुण्यवासरे ॥ १५ ॥ पुण्यसारस्तदाकर्ण्य कुलदेव्याः पुरो गतः । शिरः क्षुरिकया छेत्तुमारंभे मानिनां वरः ॥ १६ ॥ साहसं किं करोष्येतदिति देवतयोदितः ? । स स्माह पर्यणेषोद् यद् कन्यामन्यो मयेप्सिताम् ॥ १७ ॥ पुनरेष तयाऽभाणि या दत्ता वत्स ! ते मया । भाविनी सा तवैवैषा मा विधा मृत्यूसाहसम् ॥ १८ ॥