SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ श्रीशान्तिनाथचरित्र अत्रान्तरे केवलिना प्रारब्धा धर्मदेशना । कतभव्यजनश्रोत्रसुधापूरप्रदेशना ॥ १५ ॥ तद्यथा रागद्देषवशीभूता दुराकूतास्तनूभृतः । . . नयन्त्यनर्थकं जन्म कृत्वाऽनर्थपरम्पराम् ॥ १६ ॥ न मोक्षप्रापण शक्ता याभ्यां विहितबन्धमाः । . रागहेषावमू शत्रू यूयं त्यजत भो जनाः ॥ १७ ॥ श्रुत्वा तां देशनां सम्यक् प्रतिबुद्धा तृणां गणाः । , केचिदाददिरे दीक्षां श्रावकत्वं तथाऽपरे ॥ १८ ॥ पप्रच्छाशनिघोषस्तं सुतास्यं मया प्रभो। . रागोद्रेकं विना हत्वा नीता निजरहे कथम् ॥ १८ ॥ केवल्यूचे पूर्वभवे पुरे रत्नपुराभिधे । शोषेणनामा भूपोऽभूत् जीवोऽस्यामिततेजसः ॥ २० ॥ इत्यादि तद्भवान् सर्वान् कथयित्वाऽब्रवीत्पुनः । तदाऽभूः कपिलस्त्वं हि सत्यभामा च त्वप्रिया ॥ २१ ॥ सत्यभामा सुतारयं संजाता कपिलस्तु सः। .. भवं भ्रान्त्वा मनुष्यत्वं कुले लब्धा तपस्विनाम् ॥ २२ ॥ कत्वा बालस्तपस्तत्र मृत्वाऽभूस्त्वं ततस्त्वया । जहे पूर्वस्वसम्बन्धाद्राजन् रागं विनाऽप्यसौ ॥२३॥ (युग्मम्) त्वय्यसौ विगतस्नेहा पुरातनभवेऽप्यभूत् । अतस्त्वमपि मन्दानुरागोऽस्यां हि प्रवर्त्तमे ॥ २४ ॥
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy