SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ द्वितीय: प्रस्तावः । साऽपि द्विधा कृता जन्ते ऽशनिघोषचतुष्टयौ । एवं च खण्डामानोऽसौ मायया शतधाऽभवत् ॥ ४ ॥ यावच्छ्रोविजयो राजा निर्विमस्तद्दधेऽभवत् । तावत्तत्र सिद्धविद्योऽमिततेजा स आययौ ॥ ५ ॥ अपहाय ततो मायां नश्यन्तं तद्भयेन तम् । दृष्ट्राऽऽदिदेशार्किनृपो विद्यां विद्यामुखीमिति ॥ ६ ॥ दूरादप्येष पापीयानानेतव्यस्त्वया स्फुटम् । साऽथ तत्पृष्ठतो लग्ना ययौ सीमनगे च सः ॥ ७ ॥ तत्र श्रीषभस्वामिजिनमन्दिरसविधौ । उत्पद्मकेवलज्ञानं वन्द्यमानं सुरासुरैः ॥ ८ ॥ निरोक्ष्य बलदेवर्षिं स तं शरणमाश्रयत् । देवताऽप्यमितायाख्यद् वलित्वा तं तथास्थितम् ॥८॥ (युग्मम्) देवीं सुतारामादाय त्वमागच्छेम मान्तिकम् । इति मारोचिमाज्ञाप्य सोऽथ श्रीविजयान्वितः ॥ १० ॥ सर्वसैन्ययुतो भेरोभाङ्कारैः पूरयन् दिशः । बलभद्रमुनिं नन्तुं तत्र सोमनी ययौ ॥ ११ ॥ ( युग्मम् ) गत्वा जिनालये नत्वा स्तुत्वा च प्रथमं जिनम् । अभ्यर्से बलदेवर्षेजेग्मतुस्तावुभावपि ॥ १२ ॥ देवीमादाय मारोचिरथागात्तत्र सत्वरम् । अर्पिताऽक्षतचारित्रा राज्ञः श्रीविजयस्य सा ॥ १३ ॥ उत्थायाशनिघोषोऽथ क्षमयामास तौ नृपौ । संमानितश्च ताभ्यां संजातास्ते गतमत्सराः ॥ १४ ॥ ५५
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy