________________
१४५
१४५
टतीयः प्रस्तावः । खेचरा हुं प्रकुर्वन्तः क्व गमिष्यसि दुर्मते ! । अन्वधावन् गृहीतास्त्रा मृगाररिव जम्बुकाः ॥ ३८ ॥ एतान् विद्रावयामास टण्यां वायुः क्षणादिव । विष्णुस्तांश्च तथा दृष्ट्वा दमितारिरथाचलत् ॥ ३८ ॥ कल्पान्त इव पाथोधिर्बलोमिकुलसङ्घलः । गनाखपत्तिग्राहाक्तस्तहिरावधनध्वनिः ॥ ४० ॥ तमायान्तमथालोक्य भोरं भयसमाकुलाम् । आखास्य रचयामास नाशकारि रिपोबलम् ॥ ४१ ॥ तयोर्नासीरवीराणां प्रतिकेशवशाङ्गिणोः । कलिः कलकलारावसङ्कुलः समभूत् तदा ॥ ४२ ॥
(१) छ झ, -पाहोय-।
कृतान्तमिव संकुलं समायान्तं विलोक्य तम् । बिभाय कनकत्रीः सा ताभ्यां चाश्वासिता पुनः ॥ ३८ ॥ संग्रामे संमुखीनौ तावित्युक्तौ दमितारिणा । भो ! भोः ! समर्प्य मे पुत्री जीवन्तौ गच्छतं युवाम् ॥ ३९ ॥ लभेतां मा पतङ्गत्वं मम कोपड़ताशने । तावचतुश्च याहि त्वं मा म्रियख मुधैव रे ! ॥ ४० ॥ ततोऽपराजितानन्तवीर्ययोः समुपस्थितम् । चतरङ्गबलं ताभिर्विद्याभिर्विहितं क्षणात् ॥ ४ ॥ क्षणमेकमथो युद्धमुभयोः सैन्ययोरभूत् । विश्वस्य विस्मयोऽधायि विद्याजनितमायया ॥ ४२ ॥
१६