________________
१४४ .
श्रीशान्तिनाथचरित्र
तयोरिति वचः श्रुत्वा प्रेमपागनियन्त्रिता । विस्मिता रूप'सूर्याभ्यामाभ्यां सह चचाल सा ॥ ३३ ॥ विमानं विद्यया कृत्वा समारुह्य नभःस्थितः । उवाचानन्तवीर्योऽथ दमितारिं सदःस्थितम् ॥ ३४ ॥ भो भोः ! सामन्तमन्ववाद्याः ! सेनाध्यक्षाः ! नृपस्य ये । शृण्वन्त्वपहरबस्मि सुतां युष्मत्पतेरिमाम् ॥ ३५ ॥ न वाच्यं तेन भावेन शहोताऽस्माकमजानताम् । इत्युही-नन्तवीर्यो नभोऽगात् सपरिग्रहः ॥ २६ ॥ तदाकर्ण्य ज्वलत्कोपकरालः प्रतिकेशवः । रे रे ! गृहीत ग्टहीत दुरात्मानममुं जवात् ॥ ३७ ॥
(१) छ झ ट त, रूपशौर्याभ्यां । (२) झ हृतामा-। ठ -नाग्राह्याऽ-।
ततः सा प्रस्थिताऽनन्तवोर्येणैवमथोदितम् । सर्वे टणुत भो लोकाः ! दमितारिश भूपतिः ॥ ३३ ॥ अनन्तवीर्यनामाऽहं निजवाहसमन्वितः। सहसा हरामि कनकत्रियं स्नेहवतीमिमाम् ॥ ३४ ॥ विद्याविनिर्मितविमानाऽधिरूढौ ततश्च तौ। नभसा गन्तुमारब्धौ तां ग्टहीत्वा पात्मजाम् ॥ ३५ ॥ दमितारिन्टपेणाऽथ प्रेषिताः सुभटा निजाः। तदोत्पन्नास्वरत्नाभ्यां सुभटास्ते पराजिताः ॥ ३६ ॥ दमितारिः स्वयं सोऽथ महाबलसमन्वितः । हन्तुमेतावधाविष्ट दुष्टो दृष्टाधरः क्रधा ॥ ३७॥
* ज ण द ताभ्यां सद्यः पराजिताः ।