________________
१४६
श्रीशान्तिनाथचरित्रे
प्रत्यनीक भटैर्भग्नं वीक्ष्य सैन्यं निजं हरिः । किञ्चिचिन्तावशो जज्ञे रत्नान्युत्पेदिरे तदा ॥ ४३ ॥ बनमाला गदा खड्गो मणिः शङ्खो धनुस्तथा । प्रत्यर्द्धचक्रिणश्चक्रं सप्तमं तद् भविष्यति ॥ ४४॥ पाञ्चजन्यमथादायानन्तवीर्यो महौजसा । दध्मौ ध्वानेन तस्याशु शत्रुसैन्यं मुमूर्च्छ च ॥ ४५ ॥ बलमुत्साहवत् जातं निजं विष्णोस्तदाऽखिलम् । सर्वाभिसारतस्तावद् डुढौके दमितार्यपि ॥ ४६ ॥ संवर्ग्य रथमारुह्य शस्त्राण्यादाय भूरिशः | उत्तस्थौ केशवचापि तथैब पराजितः ॥ ४७ ॥
उपशान्ते ततस्तस्मिन् दमितारिर्महाभुजः । युध्यते स्म समं ताभ्यां दिव्यास्त्रैस्तिमिरादिभिः ॥ ४३ ॥ तानि शस्त्राणि तस्याशु प्रतिशस्त्रैर्महाभुजौ । निर्भाग्यस्थेप्सितानीव विफलीचक्रतुस्तकौ ॥ ४४ ॥ जातसर्वास्त्रकैफल्यो दमितारिरमर्षणः ।
दध्यौ हा धिक् कथमहं शत्रुणाऽनेन निर्जितः ॥ ४५ ॥ विफलत्वं यथा जग्मुर्दिव्यास्त्राण्यखिलान्यपि । भविता चक्रमध्ये*वं प्रतिहन्तुं तथैव किम् ॥ ४६ ॥ किं वा प्रनष्टमेवेदं नायात्यद्यापि यत् करे । इति चिन्तापरस्यास्य हस्ते तच्छीघ्रमाययौ ॥ ४७ ॥
द चक्रमयेतं ।