________________
श्रीशान्तिनाथचरित्र
विरमा सत्यभामा सा कपिलस्य रहात्ततः । गत्वा श्रीषेणभूपालं कृताञ्जलिरथावदत् ॥ ४७ ॥ देव त्वं जगतीपालो लोकपालश्च पञ्चमः । दीनानाथाशरण्यानां सर्वेषां त्वं गति: 'किल ॥ ४८ ॥ ततः कुरुष्व कारुण्यं ममाप्युपरि भूपते । प्रत्यूचे पार्थिवस्तां हि किं ते दुःखस्य कारणम् ॥ ४८ ॥ पूज्यस्तावदुपाध्यायस्तस्य त्वमसि नन्दिनी । गेहिनी कपिलस्यापि मान्यस्त्वत्पितुरेव यः ॥ ५० ॥ उवाच सत्यभामेवमस्ति राजन् परं मम । भर्ता यः कपिलो नाम सोऽकुलीनत्वदूषितः ॥ ५१ ॥ राजाऽथ कथमित्युक्ता राज्ञोऽग्रे साऽपि सूनृताम् । तत्कथां कथयामास भूयश्चैवमभाषत ॥ ५२ ॥ अमुष्य रहवासेन पर्याप्तं मम सर्वथा । तथा कुरु महीनाथ यथा शौलं चराम्यहम् ॥ ५३ ॥ पाकार्य भूभुजाऽभाणि साञ्जसं कपिलोऽथ सः । विरक्ता टहवासस्य भद्रेयं त्वप्रियेत्यलम् ॥ ५४ ॥ तदिमां विगतस्नेहां मुञ्च त्वं स्वपरिग्रहात् । यथाऽसौ पिटगहस्था कुर्याद्धर्म कुलोचितम् ॥ ५५ ॥ कपिलोऽप्ययोद्देव क्षणमप्यनया विना। म स्थातुमहमोशोऽस्मि तदियं मुच्यते कथम् ॥ ५६ ॥
(१) घ प्रहो। १२) घ म्टहिणी।