________________
श्रीशान्तिनाथचरित्रे
अवादीदपरो दृष्टः किं तु पञ्चालिकाऽमुका। प्रतिच्छन्दकता तत्र स्वबुध्या रचिताऽथवा ॥ ५७ ॥ स जगादावन्तिपुया महासेनस्य भूपतेः । सुताया रत्नमञ्जर्याः प्रतिच्छन्देन सा कता ॥ ५८ ॥ पृष्ट्वा सुदिनमेथामीत्युक्त्वा गत्वा पणेऽथ सः । विक्रीय चारुवस्त्राणि व्यधात्पाथेयसूत्रणाम् ॥ ५८ ॥ ततोऽखण्डप्रयाणैः स गच्छन्नुज्जयिनों ययौ । तत्र गोपुरमध्यस्थो देव्या देवकुलेऽवसत् ॥ ६० ॥ अत्रान्तरे स शुश्राव पटहोहोषणामिमाम् । यामिन्याश्चतुरो यामान् यो रक्षेन्मृतकं ह्यदः ॥ ६१ ॥ तस्मै ददाति दौनारसहस्रं वणिगीश्वरः । मित्रानन्देन श्रुत्वेवं पृष्टो दौवारिकस्तदा ॥ ६२ ॥ (युग्मम्) दीयतेऽतिप्रभूतं स्वं भोः कार्य किमियत्यपि । स आचख्यावियं मारीविद्रुताऽस्त्यधुना पुरी ॥ ६३ ॥ अयं मारौकतो यावच्छब: श्रेष्ठिगृहेऽभवत् । तावदस्तमितः सूर्यः प्रतोली पिहिता ह्यसौ ॥ ६४ ॥ समर्थो रक्षितुं कोऽपि न मारोहतमित्यमुम् । ततोऽस्य रक्षण भद्र ! लभ्यते प्रचुरं धनम् ॥ ६५ ॥ कार्याणि धनहीनानां न सिध्यन्ति महीतले । इति मित्रः स्वलाभार्थं शबरक्षां प्रपत्रवान् ॥ ६६ ॥ तस्येप्सितं धनस्याई मर्पयित्वा शबं च तम् । शेष प्रभाते दास्यामीत्युक्त्वाऽगादीखरो रहे ॥ ६७ ॥