SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रस्तावः । शाकिनीभूतवेतालोपसर्गेषु भवत्स्वपि । रक्षितं तेन तद्रात्रौ मृतकं धोरताजुषा ॥ ६८ ॥ प्रभाते स्वजनैस्तच्च मृतकं भस्मसात्कृतम् । धनं मार्गयतो मित्रानन्दस्य ददिरे न ते ॥ ६८ ॥ सोऽवदद्यदि राजाऽत्र महासेनो भविष्यति । ततो लप्सेा धनमहमित्युक्त्वाऽगमदापणे ॥ ७० ॥ गृहीत्वा चारुवस्त्राणि दोनारैकशतेन सः | विधाय चोह्नटं वेषं वेश्यायाः सदनं ययौ ॥ ७१ ॥ वसन्ततिलकानाम्ना रूपयौवनयुक्तया । १०७ अभ्युत्थानादिसत्कारो विदधे तस्य वेश्यया ॥ ७२ ॥ दत्तानि तेन चत्वारि दीनाराणां शतान्यथ | कुहिन्या हर्षिता सा चादिदेशेति सुतां निजाम् ॥ ७३ ॥ द्रष्टव्यो गौरवेणैष पुत्रप्रदारी नरस्त्वया । श्रादावेव धनं येन ममादायि प्रभूतशः ॥ ७४ ॥ ततः सा स्वयमेवास्य चक्रे स्नानादिसत्क्रियाम् । प्रदोषसमये वासगृहे तस्या ययावसौ ॥ ७५ ॥ धरायाताऽमरीकल्पा कल्पिताऽनल्पभूषणा । तत्र शय्यागते तस्मिन् गणिका सा समाययौ ॥ ७६ ॥ सोऽथ दध्यौ न विषयासक्तानामिह देहिनाम् | नूनं कार्याणि सिध्यन्तोति विचिन्त्याब्रवोच्च ताम् ॥ ७७ ॥ करोमि स्मरणां काञ्चिद् भद्रे ! पट्टं समानय । इत्युक्ते सहसाऽऽनीतः पट्टो हेममयस्तया ॥ ७८ ॥
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy