SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ १०८ श्रीशान्तिनाथचरित्र तत्रोपविश्य निविडं कृत्वा पद्मासनं तथा । वस्त्रेणाच्छादयित्वाऽङ्गं सोऽस्थाडुद्धिमतां वरः ॥ ७८ ॥ गतेऽथ प्रथमे यामे रन्तुमभ्यर्थितस्तया। स तु मौनपरस्तस्थौ वृथा ध्यानेन शान्तवत् ॥ ८० ॥ एवं ध्यानपरस्यास्य सकलाऽपि गता निशा । प्रभाते स समुत्थाय देहचिन्ताकृते ययौ ॥ ८१ ॥ सद्भावेऽथ तयाऽऽख्याते पुनः सा भणिताऽक्कया। सर्वथा सेवनीयोऽयं हे पुत्रि ! त्वयका नरः ॥ ८२ ॥ अस्मिंश्च कामिते वित्तं स्थिरमेतद्भविष्यति । अन्यथा भद्रिते शौर्षे तत्प्रसूनमिवास्थिरम् ॥ ८३ ॥ हितीयाऽपि निशा तस्यातिक्रान्तैवं तथाऽपरा । ततस्तं कुटिनी रुष्टा सोपालम्भमदोऽवदत् ॥ ८४ ॥ भद्रेमां मम पुत्रीं त्वं भूपानामतिदुर्लभाम् । विडम्बयसि किं नामानुरक्तामप्यकामयन् ॥ ८५ ॥ सोऽवदत्समये सर्वं करिष्याम्यक ! साध्वहम् । किं तु पृच्छामि राजस्ते प्रवेशोऽस्ति रहे नवा ॥ ८६ ॥ सोवाच वत्स ! मे पुत्री राज्ञश्चमरध यसौ । तेन तस्य गृहे रात्री दिवा चाहमवारिता ॥ ८७ ॥ यद्येवं तस्य तनयामक्क ! त्वं रत्नमञ्जरीम् ।। जानासौत्युदिता तेन सोचे सा मत्सुतासखो ॥ ८८ ॥ (१) द -धा-1
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy