________________
द्वतीयः प्रस्तावः । रत्नसारोऽब्रवीत्तर्हि सूरदेवोऽत्र सूत्रवत् । स तु कुङ्कुणदेशान्तःसोपारकपुरऽस्ति भोः ॥ ४६ ॥ अहं निकेतनस्यास्य कारकस्तेन वेद्मादः । शंस त्वमपि मे तावदुपायं स्ववितर्कितम् ॥ ४७ ॥ सोऽवोचत्तात ! मन्मित्रमिदं प्रतिकरोषि चेत् । गत्वा सोपारके सूत्रधारं पृच्छाम्यहं ततः ॥ ४८ ॥ यद्यसौ पुत्रिका तेन स्यात्प्रतिकृतिना कता । ततस्तस्मिन् समानौते सेत्स्यत्यस्य समीहितम् ॥ १८ ॥ श्रेष्ठिना तत्प्रतीकारेऽङ्गीकृतेऽथामरोऽवदत् । श्रोष्यामि यद्यपायं ते तदा यास्यन्ति मेऽसवः ॥ ५० ॥ इतरः स्माह नायामि हिमास्यन्तरहं यदि। तदा त्वयाऽवगन्तव्यं नास्ति मन्मित्रमित्यहो ॥ ५१ ॥ कष्टेन बोधयित्वेनं श्रेष्ठिनाऽनुमतोऽथ सः । अखण्डितप्रयाणोऽगात् सोपारकपुर क्रमात् ॥ ५२ ॥ तत्राङ्गुलीयं विक्रीय गृहीत्वा वसनादि च । ताम्बूलव्याप्तकरः प्रययौ स्थपतेहे ॥ ५३ ॥ सश्रीक इति तेनास्य प्रतिपत्तिः कता मुदा । शुभासनोपविष्टः स पृष्टश्चागमकारणम् ॥ ५४ ॥ भद्र ! देवकुलं रम्यं कारयिष्याम्यहं त्वया। परं प्रतिकृतिः काचिद्दर्यतामिति सोऽब्रवीत् ॥ ५५ ॥ उवाच सूत्रकच्चक्रे प्रासादो मयका किल । पुरे पाटलिपुत्राख्ये स दृष्टो भवता न किम् ॥ ५६ ॥