________________
२४०
श्रीमान्तिनाथचरित्रे
समीपे भूपतिः स्वस्याकारयामास रोहकम् । व्यवस्थयाऽनयाऽन्धेद्युरन्योऽन्यस्य विरुद्धया ॥ ३८ ॥ नागम्यं मलिनाङ्गेन कार्यं स्नानं न च त्वया । यानाऽऽरूढेन चागम्यं पद्भ्यां नाऽस्पृशता भुवम् ॥ ३८ ॥ नोत्पथेन न मार्गेण न रात्रौ न च वासरे |
न कृष्णे नोज्ज्वले पक्षे न च्छायायां न चाऽऽतपे ॥ ४० ॥ नोपदापाणिना नैव रिक्तहस्तेन वा त्वया । आगन्तव्यं त्वयाऽभ्यामे शेमुषीशालिना ध्रुवम् ॥ ४१ ॥ ततश्चैडकिकिाऽऽरूढः स्पृशन् पद्भ्यां धरातलम् । प्रक्षालिताङ्गस्तोयेन सन्ध्याकाले कुहदिने ॥ ४२ ॥ धृतचालनकः शीर्षे चक्ररेखान्तरालगः । मृदुपायन'पाणिश्च स ययौ नृपपर्षदि ॥ ४३ ॥ कृत्वा प्रणामं भूपस्य समीपे निषसाद च । ढौकयामास चामुष्य प्राभृतं मृत्तिकामयम् ॥ ४४ ॥ किमेतदिति राज्ञोक्ते कथयित्वाऽऽत्मन: कथाम् ? | सोऽवदद देव ! गुर्वीयं जगन्मातेव मृत्तिका ॥ ४५ ॥ ततश्च स्वाऽऽगतप्रश्नद्रव्यदानाऽऽदिना नृपः । संमान्यैनं सभामध्ये प्रशशंस सविस्मयः ॥ ४६ ॥
अहो ! अस्य महापुंसो विलोक्य मतिवैभवम् । वयं मन्यामहे रूढं सत्यमेतत् सुभाषितम् ॥ ४७ ॥
(१) ख घ ज - पाणिभ्यां ।