________________
तृतीयः प्रस्तावः ।
श्रुत्वा तदन्तिके धर्मं प्रतिबुद्धौ महाशयौ । जातव्रतपरीणामौ जिनं नत्वेयतुर्गृहम् ॥ ८४ ॥ पौत्रे भारं कुटुम्बस्य विन्यस्य सुतसंयुतः । स श्रेष्ठ परिवव्राज श्रीवीर जिनसन्निधौ ॥ ८५ ॥ पित्रा समन्वितः सोऽथ जिनपालितसंयुतः । स्वकार्यसाधको जन्मे तपः कृत्वा सुदुश्चरम् ॥ ८६ ॥ कथयित्वा कथामेतां धर्मघोषमुनीश्वरः । राजर्षेरमरस्योपनयं कथयति स्म सः ॥ ८७ ॥ यथा तौ वणिजौ तद्ददु जीवाः संसारिणोऽखिलाः रत्नstपदेवतेवाऽविरतिः परिकीर्तिता ॥ ८८ ॥ तथाऽविरतिजं दुःखं यथाऽस्याः शबसञ्चयः । शूलागतनरो यद्दद् हितभाषी गुरुस्तथा ॥ ८८ ॥ यथा तेन तत्स्वरूपमनुभूतं निवेदितम् । तथैवाविरतेर्दुःखं गुरुराख्याति देहिनाम् ॥ ८० ॥ यथाऽसौ शैलको यक्षस्तारक: संयमस्तथा । समुद्र इव संसारस्तरणीयोऽमुना ध्रुवम् ॥ ८१ ॥ यथा तस्या वशीभूतो विनष्टो जिनरक्षितः | तथैवाऽविर ते जन्तुर्वशीभूतो विनश्यति ॥ ८२ ॥ देवतोक्तिनिराकाङ्क्षी यक्षादेशमखण्डयन् ।
क्षेमेण स्वपुरं प्राप्तो यथाऽसौ जिनपालितः ॥ ८३ ॥ विरतोऽविरतेस्तद्दच्चारित्रमविराधयन् ।
निष्कर्मा जायते प्राणी निर्वाणसुखभाजनम् ॥ ८४ ॥
१३८