________________
१४०
श्रीशान्तिनाथचरित्रे
तद् भोः ! प्रपद्य श्रामण्यं पुनर्भोगेषु नो मनः । कर्त्तव्यमिति सन्दिष्टे गुरुणा मुमुदे मुनिः ॥ ८५ ॥ समर्पिता प्रवर्तिन्यास्त तोऽसौ रत्नमञ्जरी। कत्वोदारं तपस्तौ द्वौ संप्राप्तौ परमं पदम् ॥ ८६ ॥
॥ इति मित्रानन्दामरदत्तकथानकं समाप्तम् ॥
स्वयंप्रभमुनेर्धर्मोपदेशमतिपावनम् । श्रुत्वैवं प्रतिबुद्धोऽसौ राजा स्तिमितसागरः ॥ ८७ ॥ अनन्तवीर्य भूपत्वे, कुमारत्वेऽपरं सुतम् । विन्यस्यास्य मुनेः पार्खे स दीक्षां समुपाददे ॥ ८ ॥ विराध्य मनसा किञ्चित् सोऽन्तकालेऽनगारताम् । मृत्वाऽधो भुवने जज्ञे चमरेन्द्रोऽसुराऽधिपः ॥ ८ ॥ इतोऽपराजितानन्तवीर्ययोविभुताजुषोः । विद्याधरण केनाऽपि मैत्री सममजायत ॥ ५०० ॥ दत्ता विद्यास्तेन ताभ्यां विहायोगमनक्षमाः । सर्वा तत्साधनोपायसामग्री च निवेदिता ॥ १ ॥ बर्बरीति चिलातीति गीतनाट्यकलाविदौ । तयोर्बभूवतुर्दास्यौ विनोदास्पदमद्भुतम् ॥ २ ॥ अन्यदा स्थानमासीनी सन्नाव्य क्रियया तयोः । अभूतां व्याकुलौ यावत् तौ बन्धू रङ्गनिर्भरौ ॥ ३ ॥ तावत् तत्र ब्रह्मधारी खेच्छाचारी कलिप्रियः । सम्यग्दर्शनपुण्यात्मा नारदर्षिरुपाययौ ॥ ४ ॥