________________
चतुर्थः प्रस्तावः ।
२२५ पुण्यसारोऽवदत् तात ! युभशिक्षापनैव हि । संजाता हेतुरीदृश्याः' सम्मदो नियतं मम ॥ ८८ ॥ दत्त्वाऽथ द्यूतकारस्य तदानीतं विभूषणम् । नृपसत्कं नृपस्यैवार्पयामास पुरन्दरः ॥ ८८ ॥ विदधे पुण्यसारोऽथ हव्यापारमुत्तमम् । दूरं विहाय तद् द्यूतव्यसनं गुणनाशनम् ॥ १० ॥ इतस्तस्मिन्ननायात वलित्वा गुण सुन्दरी । सोदरीणां समाचख्यौ सर्वासामपि तहतिम् ॥ ८१ ॥ ततस्ता नवगेहान्त—मांसक इवोत्कटे । आकस्मिकेऽसुखे तस्मिन् पतिते रुरुदुर्भृशम् ॥ ८२ ॥ आकर्ण्य रुदितं पित्रा पृष्टास्तस्य च कारणम् । कथयन्ति स्म तास्तस्य तत्पत्युरपवारणम् ॥ ८३ H सोऽब्रवीदपरिज्ञातपारम्पर्यो निजः पतिः । किं न सम्भूय युष्माभिधृतो ज्ञात्वा तदाशयम् ? ॥ २४ ॥ रूपलावण्ययुक्ताभिः स्त्रीभिः सर्वोऽपि लुभ्यते । तद् भवत्यः प्रियास्तेन प्राप्ताः परिहृताः कथम् ? ॥ ८५ ॥ यदङ्गलग्नमादाय भूषणं गतवानसौ । तद् मन्ये व्यसनी कोऽपि व्यंसको वा भविष्यति ? ॥ १६ ॥ दत्तो लम्बोदरेणाऽपि यदेवमकरोदसी। तट् नूनं दुष्कृतं किञ्चित् पुरा चौर्णमिदं हि वः ॥८७ ॥
सा।
(१) थ -रीक्ष-। (२) ख ङ दत्त्वाऽर्थे ।
(३) ८ तदानीं तहिभूषणम् । (४) घ च ट द -नायाति ।