________________
२२४
श्रौशान्तिनाथचरित्रे
तल्कोटरप्रविष्टेऽस्मिन् निन्यतुर्देवते अपि । तच्छयोत्याटित: सोऽथ वटः स्वस्थानमागमत् ॥ ७८ ॥ इत: पुरन्दरः श्रेष्ठो भ्रामं भ्रामं पुरेऽखिले । निशान्तेऽतीवनिर्विमो यावत् तत्र समाययौ ॥ ७ ॥ तावत् सा विगता रात्रि: प्रगाष्टं वापि तत् तमः । ततो विभातं न्यग्रोधे गतस्येत्युच्यते जनैः ॥ ८० ॥ निर्ययौ पुण्यसारोऽथ तदानीं वटकोटरात्।। वस्त्रालङ्कारसाराङ्गः पिटवक्ताम्बुजार्यमा ॥ ८१ ॥ पुत्रमत्यद्भुतश्रीकं दृष्ट्वा श्रेष्ठी सविस्मयः । वत्स ! वत्सेति जल्पन्तमालिलिङ्ग ससंभ्रमम् ॥ ८२ ॥ ततः स्वर्गहमायातः सह तेन विलोक्य तौ। बभूव वेष्ठिनी हृष्टा स्पृष्टा रुच्येव शीतगीः ॥ ८३ ॥ गाढमालिय सस्नेहं तमुत्सङ्गे निवेश्य च । पप्रच्छ वत्स ! शोभयं संजाता क तवेदृशौ ? ॥ ८४ ॥ जचे च जनकोऽप्येवं ततोऽसौ सकलां कथाम् । तदने कथयामास महहिस्मयकारिणीम् ॥ ८५ ॥ तावेवमूचतुर्भाग्यमहो ! वत्सस्य कीदृशम् ? । ऋद्धिर्येनेदृशी लब्धा रात्रिमध्येऽप्यचिन्तिता ॥ ८६ ॥ बभाण जनको भूयः क्षन्तव्यं वत्स ! तत् त्वया । मया विरूपं यत् किञ्चिदुक्तं शिक्षापनाकृते ॥ ८७ ॥
(१) ङ -ऽस्मिन्नीयतः।
(२) ङ सहसैव।