________________
२२३
चतुर्थः प्रस्तावः । यावत् ता न विदन्ति स्म श्लोकस्यार्थमपि स्फुटम् । तावत् स दध्यो वृक्षोऽसौ गमिष्यति सदैवतः ॥ ६८ ॥ इति गन्तुमनाः सोऽथ दिशाऽऽलो'कादिचेष्टया। विज्ञातो गुणसुन्दर्या तया दारक निष्ठया ॥ ७० ॥ किमङ्ग ! चिन्तां कतु ते शशाऽस्तौति तयोदित: ? । सोऽब्रवीदेवमेवेति दत्तहस्तस्तया ततः ॥ ७१ ॥ अधोभूमौ समागत्य स्वस्य ज्ञापनहेतवे। इति श्लोकं तुलायां स सुधीः खडिकयाऽलिखत् ॥ ७२ ॥ किहां गोवालो किहां वलहिपुरं किहां लम्बोदरदेव ? । लाडन आयो विहिवसिं गिो सत्तइ परिणवि ॥ ७३ ॥ गोपालयपुरादागां वलभ्यां नियतेर्वशात् । परिणीय वधूः सप्त पुनस्तत्र गतोऽस्माहम् ॥ ७४ ॥ साऽर्थमग्रेतनस्याऽपि श्लोकस्याविदुषो तदा । लज्जमानाऽनुष्टुभं तं प्रसन्नं नाऽप्यवाचयत् ॥ ७५ ॥ ग्रहहारगतः सोऽथ तामूवे गुणसुन्दरीम् । सुखेन तनुचिन्ता स्यादतिनिर्विजने मम ॥ ७६ ॥ ततस्त्वयाऽत्र स्थातव्यमहं त्वनिकटे गतः । निराबाधो भविष्यामोत्युक्त्वा तत्र वटे ययौ ॥ ७७ ॥
(१) ड -लोकनचे। (२) गूर्जरभाषानिबधेयं प्रतिभासते तथा केषु च पुस्तकेषु नोपलभ्यते ।