________________
२२२
श्रीशान्तिनाथचरित्रे
लम्बोदरग्टहद्दारे वेदिकामण्डपे कृते ।
मेलितखजनः श्रेष्ठो यावदासीत् सुताऽन्वितः ॥ ५८ ॥ तावत् ते देवते तस्य समीपेन प्रजग्मतुः ।
श्रेष्ठप्रावासे रसवत्या रसग्रहणहेतवे ॥ ५८ ॥ ( युग्मम् ) एते अनुव्रजन् पुण्यसारः श्रेष्ठिवरेण सः । ददृशे भणितश्चैवं निवेश्य प्रवराऽऽसने ॥ ६० ॥ लम्बोदरेण भद्र ! त्वं जामाता परिकल्पितः । एता मम सुताः सप्त तत्त्वं परिण्यानघ ! ॥ ६१ ॥ इत्युदित्वा सुवसने नवीने परिधापितः । लक्षमूल्य भूषणेनालङ्कृतः श्रेष्ठिना च सः ॥ ६२ ॥ ततो भवत्सु धवलमङ्गलेष्वग्निसाचिकम् । परिणीताः चारु कन्याः पुरन्दरसुतेन ताः ॥ ६३ ॥ सोऽथ दध्यावदो युक्तं पित्रा निर्वासितोऽस्मि यत् । अन्यथैवं कथं पुण्यसारनाम स्फुटोभवेत् ? ॥ ६४ ॥ इति ध्यायन् कृतोद्दाहः स वधूभिः समन्वितः । श्रेष्ठिना स्वग्टहं निन्ये महोत्सवपुरस्परम् ॥ ६५ ॥ प्रासादस्योपरितनभूमौ नोत्वा निवेशितः । वल्लभाभिः स पर्यङ्के निविष्टास्ताश्च विष्ट || ६६ ॥ पृच्छन्ति स्म कलाऽभ्यासस्तव नाथ ! कियानिति ? | सोऽब्रवीत् सकला मुग्धाः ! मम नेष्टतरा यतः ॥ ६७॥ अत्यन्तं विदुषां नैव सुखं मूर्खनृणां न च | उपार्जयत तद् यूयं सर्वथा मध्यमां कलाम् ॥ ६८ ॥