________________
चतुर्थ: प्रस्तावः ।
१७८
सं दृष्ट्वा कश्चिदित्यूचे धन्योऽसौ श्रेष्ठिनन्दनः।। व एवंविधसामग्रमा खेच्छया विलसत्यहो ॥ १८ ॥ सोऽन्येन भणितो मुन्ध ! किमस्य त्वं प्रशंससि । यः पित्रोपार्जितां लक्ष्मों भुङ्क्ते कापुरुषक्रियः ॥ १८ ॥ प्रशंसायाः स योग्योऽत्र यो द्रव्योपार्जने रतः । त्यागभोगपरो यश्च लोकमध्ये विजभते ॥२०॥ तच्छ्रुत्वा वेष्ठिपुत्रोऽसौ चिन्तयामास चेतसि । अमुनापरेणापि जल्पितं मे हितं वच: ॥ २१ ॥ ततो देशान्तरे गत्वा समुषायं धनं धनम् । तत् सर्व साधयिष्यामि यदनेन विभाषितम् ॥ २२ ॥ खवितर्कोऽथ मित्राणामने तेन निवेदितः । प्रशंसितश्च तैस्तस्याभिप्रायः प्रियवादिभिः ॥ २३ ॥ लगित्वा पादयोः सोऽथ जगाद जनकं मया । अर्थार्जनकृते गम्यं परदेशे त्वदाजया ॥ २४ ॥ वनाऽऽहत इव श्रेष्ठी दुःखितस्तमभाषत । अर्थस्ते विद्यते वत्स ! त्यागभोगक्षमो बहुः ॥ २५ ॥ तेनैव साधनीयानि सर्वकार्याणि निश्चितम् । प्राणसन्देहकरण गम्यं देशान्तरे न हि ॥ २६ ॥ पुनरप्यवदत् पुत्रस्तात ! लक्ष्मीस्त्वयाऽर्जिता । जननीव न मे भोक्तुं युज्यते शैशवाहते ॥ २७ ॥ अत्याग्रहपरं ज्ञात्वा विससर्ज पिताऽपि तम् । खतोऽसौ यानसामग्रीमखिला प्रगुणां व्यधात् ॥ २८॥