________________
१८०
श्रीशान्तिनाथचरित्रे
ससहायः सपाथेयः समादाय क्रयाणकम् । विदधे सार्थसंयुक्तः स शुभेऽह्नि प्रयाणकम् ॥ २८ ॥ कृत्वाऽनुगमनं तस्य किञ्चिदध्वानमज्जसा । श्रेष्ठ निवर्तमानोऽथ शिक्षामेवंविधामदात् ॥ २० ॥ त्यागिना कृपणेनैव निर्घृणेन दयालुना । विदेशगेन भवता भाव्यं शूरतरेण च ॥ ३१ ॥ सर्वथाऽलब्धमध्यस्त्वं भूया वत्स ! ममाऽऽज्ञया । शिक्षां दत्त्वेति वलितः श्रेष्ठो स प्रचचाल च ॥ ३२ ॥ आगच्छाऽऽगच्छ भोः ! अत्र तिष्ठोत्तिष्ठ व्रज द्रुतम् । इत्यादिवाक्यतुमुलः सार्थमध्ये तदाऽभवत् ॥ २३ ॥ 'श्रीपुरं नगरं प्राप्तस्तत्र चोपसरोवरम् । सार्थोऽस्थात् सार्थनाथस्तु रम्ये पटकुटीतटे ॥ ३४ ॥ तदैकः कम्पमानाङ्गो भयात् चञ्चललोचनः । पुरुषः शरणं कश्चिदु धनदत्तमुपाश्रितः ॥ ३५ ॥ तेनैवं भणितः सोऽथ मा भैषोस्त्वं कुतोऽपि भोः ! । महत्यापराधेऽपि मत्समीपमुपागतः ॥ ३६ ॥ अत्रान्तरे हत हतेतिवदन्त उदायुधाः । आरक्षकनरा एत्य सार्थवाहमदोऽवदन् ॥ ३७ ॥
दासोऽयं नरनाथस्य तस्याऽऽभरणमुत्तमम् ।
गृहीत्वा हारयामास द्यूतकारस्य सन्निधौ ॥ ३८ ॥
(१) ख घ झ श्रीपुरे नगरे प्राप्ते त- ।
(५) ङ ज द ग्टहे ।