________________
तृतीय: प्रस्तावः ।
यत्त्र कर्मसु पापेषु न स्तोकमपि वर्जनम् । जानोथोऽविरतिं तां हि सर्वदुःखनिबन्धिनीम् ॥ ६५ ॥ कोपो मानश्च माया च लोभश्चेति निवेदिताः । मूलं संसारवासस्य कषाया जिनशासने ॥ ६६ ॥ चान्तेर्विपर्ययः कोपो मानोऽमार्दवसंज्ञितः । मायाऽऽर्जवस्य वैरूप्यं लोभो मुक्तेर्विपर्ययः ॥ ६७ ॥ मदिरा विषयाश्चैव निद्राश्च विकथास्तथा । प्रमादाः कथिताः पञ्च कषायसहिता इमे ॥ ६८ ॥ काष्ठपिष्टादिनिष्पन्ना कथिता मदिरा द्विधा । शब्दरूपरसगन्धस्पर्शाख्या विषयास्तथा ॥ ६८ ॥ निद्रा च निद्रानिद्रा च तृतीया प्रचलाऽभिधा । प्रचलाप्रचला तुर्या स्त्यानईिः पञ्चमो भवेत् ॥ ७० ॥ 'सुखबोधा भवेनिद्रा दुःखबोधाऽतिनिद्रिका । प्रचला संनिविष्टस्य चतुर्थी गच्छतो भवेत् ॥ ७१ ॥ दिनचिन्तितकार्यस्य साधनी पञ्चमो 'पुन: । सा तूदये भवेज्जन्तोरतिसंक्लिष्टकर्मणः ॥ ७२ ॥ स्त्रीकथा भक्तवार्ता च राजदेशकथा तथा । चतस्रो विकथा एता वर्जनीया विवेकिना ॥ ७३ ॥
(१) घ ङ च ज झा, सुखबोधो भवेन्निद्रा दुःखबोधोऽति- । (२) घ च ज झ भवेत् ।
१४८