SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ द्वतीयः प्रस्तावः । १५५ सायं मार्गरजःकोर्णस्तरुमूलस्थितो नृपः। कषायवस्त्रमायान्तं ददर्शकं 'त्रिदण्डिकम् ॥ २२ ॥ खसमीपे समायान्तं ननाम स महीपतिः । कुत: स्थानादागतोऽसोत्याऽऽललाप स कोऽपि तम् ॥ २३ ॥ राजा प्रोवाच द्रव्यार्थी पथिको भगववहम् । भ्रान्तोऽस्मि बहुदेशेषु विभवं क्वापि नाऽऽनुवम् ॥ २४ ॥ तदा विदण्डिकस्तूचे ये देशा वीक्षितास्त्वया । तेषां खरूपमाख्याहि नामग्राहमहो मम ॥ २५ ॥ भूपतिः स्माऽऽह चतुरशीतिसङ्ख्या हि नोहतः । खरूपमपि केषाञ्चिच्छृणु त्वं कथयाम्यहम् ॥ २६ ॥ यत्रैकवसना नार्यः प्रायो लोकः प्रियंवदः । केशो नैवोचते बालो लाटदेशः स वीक्षितः ॥ २७ ॥ सुदीर्घचिहुरा मञ्जुरावाः कम्बलचीवराः । यत्र रामाः स सौराष्ट्रनामा राष्ट्रो मयेक्षितः ॥ २८ ॥ बालिकेरीकदलीनां फलं शालिश्च भोजने । नागवल्लीदलं यत्र स दृष्टः कुगुणो मया ॥ २८ ॥ शचिवेषाः प्रियाऽऽलापा यत्र लोका विवेकिनः । वैदग्धौरुचिरो देशो मया दृष्टः स पूर्जरः ॥ ३० ॥ यत्रकभक्तिकं वस्त्रमस्त्रं सर्वतॄणां करे। भाषाऽतिपरुषा दृष्टः स देशो मारुकाऽऽवयः ॥ ३१ ॥ (१) ऊठ बिदण्डिनम् । (२) ङ -रवाः । (३) घ च सौराष्ट्रो नाम । (४) ख घ वस्त्रं शवं।
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy