SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १५६ श्रीशान्तिनाथचरित्रे यवेक्षवो वौहयश्च जायते च कृषित्रयम् । सर्वसाधारणो लोको मध्यदेश: स वीक्षितः ॥ ३२ ॥ गोधूमाः प्रचुरा यत्र दुष्पापं लवणं तथा। सजलः सकलोऽप्येष मालवोऽपि निरीक्षितः ॥ ३३ ॥ त्रिदण्डिवेषभृच्चौरः स श्रुत्वैवं व्यचिन्तयत् । अयं हि पथिकोऽवश्यं द्रव्यार्थी सदृशो मम ॥ ३४ ॥ बभाष च मम त्वं चेद भणितं भोः ! करिष्यसि । तन्मनोवाञ्छितं द्रव्यमचिरात् समवाप्सासि ॥ ३५ ॥ नृपः 'प्रोवाच यो द्रव्यं ददाति हृदयेप्सितम् । न केवलमहं तस्य सर्वोऽप्याज्ञाकरो जनः ॥ ३६ ॥ सोऽवदत् सांप्रतं तहिं वर्तते भोः ! तमखिनी। पारदारिकदस्चूनां दुष्टानां च प्रियङ्करी ॥ ३७॥ तदुत्तिष्ठ कपाणं त्वं करे कुरु, यथा पुरे। प्रविश्याऽऽनीयते द्रव्यं कुतोऽपोखरमन्दिरात् ॥ ३८ ॥ राजाऽपि चिन्तयामास नूनमेष स तस्करः । तदेनं हन्मि वा पश्याम्यथो यदिदधात्य सौ ॥ ३८ ॥ ततः खङ्ग चकर्षासौ दध्यौ संवीक्ष्य योग्यपि । ईदृशेनैव खड्नेन नगरीशो विभाव्यते ॥ ४० ॥ (१) घ च ज द प्रोचे च । (२) च -लम्। (३) ख घ च ज ठ तं वीच्य।
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy