________________
हतीयः प्रस्तावः ।
१५७
१५७
तन्मया मारणीयोऽयमुपायेन हि केनचित् । इति ध्यात्वाऽयतो गत्वा वलितोऽसौ झटित्यपि ॥ ४१ ॥ जागर्त्यद्यापि पूर्लोको विश्रामं कुर्वहे ततः । क्षणमकमिहाऽऽवां भोरित्यूचे च नृपं प्रति ॥ ४२ ॥ ततस्तदाऽऽजया राजा चक्रे पल्लवसंस्तरौ। तवैकन स विश्रान्तो द्वितीये पार्थिवः स्वयम् ॥ ४३ ॥ मयि जाग्रति नेषोऽपि शयिथते कथञ्चन । चिन्तयित्वेति सुष्वाप संस्तर सोऽथ तस्करः ॥ ४४ ॥ झटित्यथो समुत्थाय स्वस्थानेऽस्थापयबृपः । महल्काष्ठं, स्वयं चास्थात् सासिवृक्षस्य कोटरे ॥ ४५ ॥ त्रिदण्डो खगमावष्य तस्करोऽपि समुत्थितः । तत्काष्ठमसिघातेन नृपश्चान्त्या द्विधा व्यधात् ॥ ४६ ॥ अपसार्य पटौं स्पर्शादिना विज्ञाय दारु तत् । धूर्तेन वञ्चितोऽस्मीति पश्चात्तापं चकार च ॥ ४७॥ राज्ञा सोऽभाणि रे दुष्ट ! मया त्वं मार्यसेऽधुना। विद्यते पौरुषं चेत् ते ततो मेऽभिमुखो भव ॥ ४८ ॥ साधु साध्विति चौरोऽपि बलात् निखिंशपाणिकः । संग्रामाय समं राजाऽभ्यढौकिष्ट स दुष्टधीः ॥ ४ ॥ खनाखनि चिरं कृत्वा दोपता पृथिवीभुजा। मर्मप्रदेश पाहत्य पातितोऽसौ महीतले ॥ ५० ॥ विधुरस्तेन घातेन तस्करः माह भूपतिम् । सोऽहं दस्युरहो वीर ! येनेयं मुषिता पुरी ॥ ५१ ॥