SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ १८२ श्रीशान्तिनाथचरित्रे व्यग्रत्वाद् भूपतेः सोऽथोपविश्यास्थाद नृपस्तथा । विसृज्याऽऽस्थानमभ्यङ्गस्नाने चक्रे श्रमापहे ॥ ५२ ॥ देवपूजनवेलायामथ तस्य महीपतेः । सपुष्पबटुरागत्य प्रसूनानि समार्पयत् ॥ ५३ ॥ कस्त्वं भद्रेति राज्ञोक्तः सोऽवोचद् यज्ञदत्तस्रः । अहं शुभङ्करो नाम्ना विप्रोऽरिष्टपुरस्थितिः ॥ ५४ ॥ निजगेहाद विनिर्गत्य देशदर्शन कौतुकी । भ्रमन्त्रिह समायातः समीपे ते महोपते ! ॥ ५५ ॥ प्रक्कत्या विनयौ सोऽथ स्वसमीपे महीभुजा । स्थापितस्तत्र निश्चिन्तस्तस्थौ चापि शभङ्करः ॥ ५६ ॥ शूरस्त्यागौ प्रियाभाषी कृतज्ञो दृढसौहृदः । विज्ञानी स्वामिभक्तश्च स सर्वगुणमन्दिरम् ॥ ५७ ॥ अतिगौरवतो राज्ञा शुद्धान्तादिष्ववारितः । सर्वत्राऽवलितो जज्ञे गुणवान् स शुभङ्करः ॥ ५८ ॥ अन्यदा नगरस्याऽस्य समीपे हरिराययौ | व्याध एकः समागत्य तमाचख्यौ महीपतिम् ॥ ५८ ॥ सेनया चतुरङ्गिण्या संयुक्तः सशुभङ्गरः । वधार्थं मृगराजस्य निर्ययौ नगराद नृपः ॥ ६ H ज्ञात्वाऽथ व्याधवचनात् तं सिंहं वनमध्यगम् । वनार्वाक् स्थापयामास सैनिकानखिलानृपः ॥ ६१ ॥ (१) ख ङ ट ढपस्तदा । (३) (२) घ च भूभुजा | खघ तो गौरवितो । ज ट प्रतिगौरवितो । ✩ *
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy